________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५८
ज्योतिर्विज्ञानशब्दकोषः अथवा-'पापयुग्मकलिते सुतपुण्ये' इ० जै० पा०। कृताधिकार: (त्रि०), कृत: अधिकारः स्वामित्वं येनं यथा—'निशाकरागारकृताधिकार:' इति। कर्कराशिं गत इत्यर्थः। इति जै० प०। क्षीणकल: (पुं०), अपूर्णकलः। यथा-'क्षीणकलाकलाव' क्षीणचन्द्र इत्यर्थः' इ००प० । चन्द्राधियोगः (पुं०), योगविशेषः। यथा-'सौम्यैः स्मरादिनिधनेष्वधियोग इन्दोः' इ०बृ० जा०। दृष्टियुतः (त्रि०), दृगाढ्यः। यथा-'बुधदृष्टियुते सौख्ये' बुधस्य दृशायुक्त' इत्यर्थः। जै०प०। निरतः (त्रि०), १ लीनः, तत्परः, २ नियुक्त:, अधिकृतः। यथा-'वैरिरन्ध्रनिरतैरतिपापैरीक्षिते शशिनि मृत्युमुपैति। इ०वि०मा०। निष्ठ: (त्रि०), स्थितः। यथा-'मानसे मलिनखेचरनिष्ठे' इति। अथवा—'सैहिकेयनलिनीपतिनिष्ठे' इति च जै०प०। पतित: (त्रि०), प्रस्कन्नम्, गलितः। यथा-'त्र्यायारिषूग्राः पतिता हरन्ति कष्टं शिशूनां जनने तदानीम्।' इति ग्रं०का०। प्रकल्प्य (अ), कल्पयित्वा। यथा-'इत्थं तातादिभावानां लग्नं तत्तत्प्रकल्प्य वै। सर्वं फलं वदेत्' इ० श्लो०श०। प्रपूर्णः (त्रि०), प्रपूरित: (त्रि०) पूरितः। यथा-' प्रपूर्णेऽब्जे षड्बलैः किं कलाभिः' इ० ग्रं० का। अथवा-प्रपूरिते षोडशभिः कलाभिः सुधाकरे' इ० ०का०। मिश्रः (त्रि०), मिलितः, मिश्रितः, सम्पृक्तः, संयुक्तः।
यथा-अत्यन्ताशुभदः पाप: पापमध्ये यदा भवेत् सम्बंधी तु शुभो मिश्रोऽसम्बन्धी त्वशुभप्रदः।' इति श्लोक श०॥
यथातथा (अ०), क्रमनिवृत्यर्थवाचकोऽयम्। यथा-निधनारिधनव्ययस्थिता रविचन्द्रारयमा यथा तथा।' इति बृ०जा। याप्यः (त्रि०),, यापनीयः, निरसनम्, परित्यागः। यथा-'न शुभगदिता योगाः सदृष्टा याप्याः स्युः।' पूर्णं यथोक्तं फलं न प्रयच्छन्तीत्यर्थः। इ०६०जा०। योगाधियोगः (पुं०), योगविशेषः। यथा-'योगाधियोग: सहितस्त्रिभिः (ज्ञेज्याच्छै:) स्यात्' इ०वि०मा०। वहः (त्रि०), वाहकः, वहनकर्ता। यथा-झषविशेषभुजा सयमासृजा धिषणधिष्ण्यमृगाङ्कवहं धनुः।' इति ज्यो०भ०। अथवा-यथा-'धिषणधिष्ण्यपधिष्ण्यवहं धनुः' इति।। अथवा-यथा-'उदयगा वनिता विधुभूवहा' इति च ग्रं०का०। विराजमान: (त्रि०), दीप्तिविशिष्टः, शोभमानः, सुशोभित: (बैठा)।
For Private and Personal Use Only