________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५२
ज्योतिर्विज्ञानशब्दकोषः समाक्रान्तः (त्रि०), १ व्याप्त:, २ अधिष्ठितः। यथा-समाक्रान्तः सौम्यो यदि जनुषि देवार्चितपदा।' इ. ग्रं. का.। अथवा-समाक्रान्तः सौम्यैः सुतसदनगे भास्करसुते। इ. ग्र. का.। अथ सम्प्रति प्राप्तवाचकशब्दोदाहणानिअधिगत: (त्रि०), प्राप्तः। यथा-अधिगते धनभे धरणीभुव' इ. ग्रं. का.। आगतः (त्रि०), १ आयातः, उपस्थित:, प्राप्तः। यथा-गणे सतां गात्रगृहोपगेऽथवा तनौ शुभव्योमगयोगमागते।' इ. ग्रं. का.। आपन्न: (त्रि०), १ प्राप्तः, २ आगतः। यथा- सद्योगमापन्न इहोद्गमालये इति० ग्रं० का। आप्तः (त्रि०), १ प्राप्तः, २ लब्धः। यथा-'खगे खरांशौ खलदृष्टिमाप्ते' इति। अथवा-सोदरपेऽङ्गमाप्ते इति च ग्र०का०। आयात: (त्रि०), आगतः। यथा-शुभवर्गे लग्नगते लग्ने वा शुभवर्गमायाते।। इ०जै०प०। आस्थित: (त्रि०), १ प्राप्तः, २ आरूढः। यथा-यदोद्गमे सदृशमास्थिते जनौ इ० ग्र०का०। अथवा-केन्द्रारूढे शोभनवेमवासे। इ०ग्रं०का० । इत: (त्रि०), गतः। यथा-कायोपगेऽकें शुभवीक्षणेते। इ० ग्रं०का०। ग: (त्रि०), पदान्ते गच्छत्यस्मिन्, घञर्थेकः। यथा-'विधुररौ च मृतौ शनिरायगः इत्युदय भास्करे। अथवा-तनुजलास्तसहोदरशत्रुगा गुरुसितेन्दुजमन्ददिवाकराः। इ०वि०मा०। गत: (त्रि०), १ यातः, २ आप्तः। यथा- 'निशाकरे भाग्यगते सभार्गवे' इ० ग्र०का०। प्रगत: (त्रि०), गत:। यथा-कवौ कलत्रं प्रगते सगीष्यतौ इ०ग्र०का० । उपगः (त्रि०), प्राप्तः। यथा-यानेशकोपगतौ बलिष्ठौ इ०जा०पा०। अथवा-उपगते शुभयोगमिने मदे इ०गं०का०। उपयात: (त्रि०), प्राप्तः। यथा-वली विलग्नान्नवमोपयातः इ०जा०पा०। उपेयिवान् (क्वस्वन्तः) (त्रि०), उपगतः।
For Private and Personal Use Only