________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दृष्ट्यादिसर्गः
संसक्त: (त्रि०), संलग्नः ।
यथा - 'संसक्त इन्दौ खररश्मिमालिना इ. ग्रं. का।
संहित: ( त्रि०), १ सहितः, २ मिलितः ।
यथा- 'संहितो यदि विदा निशाकर:' इ. ग्रं. का. ।
सक्त: (त्रि०), लग्नः, लगितः । यथा- आत्मकारकलवे शशिसक्ते इ. जै. प. मृ । अथवा-यथा- 'निधनभवननाथ: कामिनीभावसक्तः इ. ग्र. ।
सखा (त्रि०), सहाय:, सहचारी, अनुचरः, अभिसरः । यथा— अखिलकेन्द्रसखैः खलखेचरैः इ. ज्यो. भ. ।
Acharya Shri Kailassagarsuri Gyanmandir
अथवा - अशुभशुक्रसखः इति विवाहवृन्दावने । सङ्गतः (त्रि०), युक्तः । यथा - द्विततनौ भार्गवभार्यभूभवाः । यदि ते तुरगाङ्गसङ्गताः सुतदाः । इति ग्रं० का . ।
सनाथ: (त्रि०), नाथवत्, रक्षक: युक्त इत्यर्थः ।
यथा-विग्रहे कमलिनीशसनाथे इति ग्रं० का ० ।
अथवा – सपत्नभवविक्रमैः शनिकुजरविभि: सनाथैः, इति ज्यो०भ० । समन्वितः (त्रि०), युक्तः। यथा - सतां गृहे सौम्यखगैः समन्विते इ. ग्रं. का। समाढ्यः (त्रि०), युक्तः। यथा - सौम्यैः समाढ्ये सुतसद्मनीन्दौ इ. ग्रं. का. । समेत: (त्रि०), मिलितः, संयुक्तः ।
यथा-पञ्चमे नवमे द्यूनेसमेतौ सितभास्करौ । इति गार्गिः ।
अथवा – मदे मतङ्गे मृदुना समेते इ० ग्रं० का ० ।
सम्पद्यमान: (त्रि०), मिलितः । सम्पद्यमानस्तरर्णिर्धराभुवा इ. ग्रं. का. । सम्पृक्त: (त्रि०), सयुक्तः । यथा - सम्पृक्तततोऽसृक, सौरिणा भास्वता वा इ. ग्र. का. । सम्मिश्र: (त्रि०), संयुक्त: । 'सम्मिश्रश्चेद् भास्करो बोधनेन इति ग्र० का ० ।
सहित: (त्रि०), संयुक्तः । यथा - भास्करहिमकरसाहित: शनैश्चरो मृत्युदः प्रसवकाले ।। इति सारावल्याम्। अथवा - - यमोऽर्कमाभ्यां सहितोऽन्तदः सवे इ. ग्रं. ।
१५१
अथाधुना व्याप्तवाचकशब्दोदाहरणानि -
आचितः (त्रि०), व्याप्तः । यथा -ऽथो चिति, नेत्रपाण्यवस्थाचिते सोमसुते, इ. ग्रं. का. । आश्रितः (त्रि०), अधिष्ठितः । यथा - यदाश्रिते कालगृहे कलानिधौ समीक्षिते कालखगेन जन्मनि । इ. ग्रं. का. ।
उपविष्टः (त्रि०), अधिष्ठितः ।
यथा - उपविष्ट इने निधने सयमे द्रविणे विधुना सहिते सकुजे । इ. ग्रं. का. । निचित: (त्रि०) व्याप्तः, पूरित: ।
यथा— शीर्षोदभाजि कण्टके सन्निचिते दीक्षणधीस्थले विदीज्ये।' इ. ज्यो. भ. । अथवा – कण्टके यदि कोदयभाजि शोभनद्युगतिना निचितेऽत्र । इति ग्रं० का ० । ११ ज्यो. वि. शब्दकोष
For Private and Personal Use Only