________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५३
दृष्ट्यादिसर्गः उपेयिवाननाश्वाननूचानश्चेति क्वसुप्रत्ययान्तो निपात:। यथा-पापमन्दिरमुपेयुषि मन्दे, इ०जै०प०। अथवा-अथ कलावति कर्कमुपेयुषि इ० ग्रं०का०। प्रयात: (त्रि०), गत: (गया), यथा-कृशतां प्रयात: इ० जै०प०। बिभावरीशे कृशतां प्रयाते इ०ग्रं०का। प्राप्त: (त्रि०), समुपस्थितः। यथा-वित्तेशाद्धनरि:पफरन्ध्रभवनप्राप्ताश्च सौम्यग्रहाः' इ००का। यात: (त्रि०), गतः। यथा-'याते कलत्रं यदि कृष्णवाससि' इ००का०। समधिगत: (त्रि०), प्राप्त:, अधिगतः। यथा-सौम्या: खेटास्त्रिकोणोदयसमधिगता: केन्द्रगा नो असौम्या: इ००का। समागत: (त्रि०), सम्प्राप्तः। यथा- 'धर्मेशदृष्टौ यदि तद्युतौ वा परस्परक्षेत्रसमागतौ वा'। इ०जा पा०। समासादित: (त्रि०), १ प्राप्त: २ आहृतः। यथा-'जायासमासादित उष्णरोचिषि' इ००का०। समुपस्थित: (त्रि०), प्राप्तः। यथा--भार्यानिकेते समपस्थिते भृगौ' इ००का० समुपेत: (त्रि०), सम्प्राप्तः। यथा-अनन्तगेहे समुपेत आर्ये इ०ग्रं०का।। सम्प्राप्त: (त्रि०), समागतः। यथा-'सम्प्राप्त उर्वीतनये मनोजे' इ००का०। अथेदानी स्थितवाचकशब्दोदाहरणानिअधिष्ठित: (त्रि०), १ आश्रितः, २ आहितः। यथा-अधिष्ठिते भास्वति भाग्यवेश्मनि इ० ग्र०का०| अवस्थित: (त्रि०), स्थितः, आसीन:, कृतावस्थानम्। यथा-निधानभावे सितगाववस्थिते इ०० का०। आश्रित: (त्रि०), उपविष्टः। यथा-बृहस्पतावाश्रित उद्गमालये इ०ग्रं०का०। आसानावस्थित: (त्रि०), आसीन:, समासीन:, उपविष्टः, (बैठा)। यथा-आसनावस्थिते वाक्पतौ वाग्गृहे' इ०ग्र०का०। आसीन: (त्रि०), उपविष्टः। यथा—आसीने धवलच्छवौ धनगृहे धिष्ण्येन संवीक्षिते इ००का०। उपविष्टः (त्रि०), समासीनः। यथा-उपविष्ट इलातनये ततनये इ०० का०। उपस्थितः, (त्रि०), १ उपसन:, निकटस्थितः, प्राप्त:, आगतः। यथा-उपस्थिते वेश्मनि वेश्मनायके इ००का०। कृतावस्थानम् (त्रि०), स्थितः, आसीनः। यथा-'कृतावस्थानेऽर्के मदनभवने मन्दसहिते' इ००का०।
For Private and Personal Use Only