________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दृष्ट्यादिसर्गः
१४९ वासः (पुं०) १ अवस्थानम् । २ गृहम् । यथा-'त्रिषडायेष्वसद्वासो विशेषेण गुरूदयः'। इ००का०॥
व्यवस्थानम् (न०), स्थितिः। यथा-'व्यवस्थानमन्त्ये शनीनेन्दुजानाम्' इ००।
व्यवस्थिति: (स्त्री०), १ अवस्थानम्। २ व्यवस्था। यथा-'व्यवस्थितिर्जन्मनि वित्तभावे खलग्रहाणां धनहानिमाहुः। इति ग्रं०का०। संस्था (स्त्री०), स्थितिः। यथा-'संस्थाजनौ जीवगृहे जडांशोः, इ० ग्र०का। ___ संस्थिति: (स्त्री०) स्थितिः। यथा-बन्धुसूनुसदने कुजरातोः संस्थिती रचयति क्षयरोगम्।' इति जैमिनीयपद्यामृते।
अथवा'केन्द्रत्रिकोणरन्ध्रार्थेष्वनयोः (लग्नेन्द्वोः) शुभसंस्थिति:।' इति ग्रन्थान्तरे।
वा'सतां संस्थिति: सूनुभे सूनुलब्धिः' इ००। स्थिति: (स्त्री०), अवस्थानम्। यथा-'उशनस: कलशे जनुषि स्थितौ' इति जातकाभरणे।
अथेदानीं संयोगवाचकशब्दोदाहरणानिअन्वयः (पुं०), संयोगः, सम्बन्ध:, मेलः। यथा-यदान्वयोऽङ्गे गुरुभास्वतार्जनौ' इ००का०।
मेल: (पुं०) सङ्गः, सङ्गमः। मेलक:, मेलनम् (न०)। यथा-'मदे मेलनं मन्दमार्तण्डनाम्नोः' इ० ग्र०का।
युक्ति: (स्त्री०) सङ्गः। यथा-यमारयोर्युक्तिरनङ्गभावे' इ००का०। युतिः (स्त्री०) योगः, समागमः। यथा-'मदनमन्दिर आरभयोर्युतिः' इ००का०। योग: (पुं०), १ संयोगः, २ युक्तिः। यथा-'अथ कण्ठकायेशयोगेऽतिपराक्रमी स्यात्' इ००का०। संयुति: (स्त्री०), संयोगः। यथा-'अजे संयुतिर्मङ्गलादित्यसून्वोः' इ००का०। संयोगः, (पुं०) मेलनम्, सम्बन्धः। यथा-'संयोग आये यमयामिनीशयोः' इ००का० संसर्गः (पुं०), १ संगः, सङ्गम: २ समवायादिसम्बनधः। यथा-'संसर्ग आङ्गिरसगौररश्म्योः ' इ० ग्र०का। सङ्गः (पुं०), १ संयोगः, सङ्गमः, मेलः, ऐक्यम् २ संसर्गः, संस्पर्शः। यथा-'सङ्गो विसारे विधुवासरेशयोः' इ०ग्र०का०। सङ्गतिः (स्त्री०) सङ्गमः। यथा-'वृषे सङ्गतिः षोडशांशूडुपत्योः' इ०० का० सङ्गमः (पुं०) संगः, मेलकः। यथा-'जम्बालनीड उडुपार्चितसङ्गमश्चेत्' इ००का०।
समन्वयः (पुं०), सयोगः, मिलनम्। यथा-'मतिपति: सबलोऽत्र समन्वये शखपयोः सति कण्टकभे तथा।' इ००का०।
समागमः (पुं०) संयोगः। यथा-'उडुपतेर्वृषभेऽत्र समागमः' इ०ग्रं०का०। समाज: (पुं०) समितिः, संयोगः। यथा-'हयाङ्गे हरीन्दुज्ञभानां समाजः' इ०ग्रं०का०
For Private and Personal Use Only