________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४८
ज्योतिर्विज्ञानशब्दकोषः मध्यप०-अन्तः (२) (अ०), अन्तरम् (न०), अन्तरा (अ०), अन्तरालम् (न०), अन्तरालकम् (न०), अभ्यन्तरम् (न०), मध्य: (पुं०न०)।
मध्यगतप०-अन्तरगत:, अन्तर्गत:, मध्यगः, मध्यगतः, मध्ययातः।
विनार्थवाचकाव्ययशब्दाः-अन्तरेण, ऋते, विना, हिरुक्, एतेऽव्ययाः स्युः। क्वचित् अन्तरम्, वर्जनमपि।
वर्जितवाचकशब्दाः-उज्झितः, ऊनः, ऊनितः, च्युतः, न्यूनः, परिच्युत:, मुक्तम्, रहितः, वर्जितः, वि (अ०), विमुक्त:, वियुक्त:, वियुतः, विरहितः, विवर्जितः, विशेष्यम्, विश्लेष्यम्, विहीनः, वीत:, एते त्रिलिङ्गाः स्युः।
अन्तरवाचकशब्दाः-अन्तरम्, विवरम्।
वर्ण्यवाचकशब्दाः-परिवर्जनीयः, परिवर्जितव्यः, परिव:, वर्जनीयः, वर्जितव्यः, वर्यः, (छोड़ने योग्य)।
वर्जयित्वावाचकाव्ययशब्दाः-अप, अपहाय, अपास्य, त्यक्त्वा, परिहत्य, प्रोज्झ्य, वर्जयित्वा, विहाय, सन्त्यज्य, हित्वा, एतेऽव्ययाः। __ क्तवतुप्रत्ययान्तशब्दाः-आश्रितवान्, इतवान्, गतवान्, प्राप्तवान्, यातवान्, स्थितवान, एते त्रिलिङ्गाः स्युः।
शानच्-कानच्-प्रत्ययान्तशब्दाः-ईक्ष्यमाणः, वर्तमान:, विद्यमान:, विराजमानः, विलोक्यमानः, वीक्ष्यमाणः, शोभमानः, समीक्ष्यमाणः, एते त्रिलिङ्गाः स्युः।
शतप्रत्ययान्तशब्दाः--अधितिष्ठन्, गच्छन्, चरन्, चलन्, तिष्ठन्, निवसन, पश्यन्, प्रवसन्, भवन, वसन्, व्रजन्, सन्, एते त्रिलिङ्गाः स्युः।
प्रकीर्णशब्दा:-अगुरुगः, गुरुग:, समभगः, एतेऽपि त्रिलिङ्गाः स्युः। अथातः परं स्थितिपर्यायाणामुदाहरणानि प्रदर्श्यन्ते–(ठहरने का स्थान)।
अवस्थानम् (न०) स्थितिः, वासः, प्रतिष्ठा। यथा-'अवस्थानमङ्गे शशाङ्केज्यमभानम्' इति। ग्रन्थकारः,
अवस्थितिः (स्त्री०), वास:। यथा-अवस्थितिर्लाभगृहे सतां चेत् इति ग्रं०का। आसना (स्त्री०) स्थितिः। यथा-'भवति दिवसभर्तुस्त्वासनायामजः' इति ग्रं०का। आस्था (स्त्री०) स्थितः। यथा-'आस्थायां यदि घटभे खरांशुसूनाः' इ०० का०।
आस्या (स्त्री०) स्थितिः। यथा-'आस्थायां पुण्डरीके जनजनिसमये पद्मिनीनाथसूनो:' इ०ग्रं०का।
उपविष्टिः (स्त्री०) वासः। यथा—'यदोपविष्टिर्मदने खलानाम्' इ००का०। निष्ठा (स्त्री०) स्थितिः। यथा-'निष्ठाऽब्जनीलाम्बरभास्वतां भवे' इ००। प्रतिष्ठा (स्त्री०) स्थितिः। यथा-'पुण्ये पपीपङ्गकविप्रतिष्ठा' इ० ग्रं०का।
For Private and Personal Use Only