________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४१
आयुर्दायादिसर्गः (५) पताकीवेधजारिष्टं चैतेऽरिष्टस्य पञ्च भेदाः स्युः।
गण्डान्तप०-गण्डान्तम् (न०), तिथ्यादिसन्धिः (पुं०)।
गण्डान्तभेदाः-(१) तिथिगण्डान्तः, (२) नक्षत्र गण्डान्तः, (३) लग्नगण्डान्तश्चैते गण्डान्तस्य त्रयो भेदा: सन्ति।
तदुक्तं ग्रन्थान्तरे-श०चि०१/१७७३। 'नक्षत्रतिथिलग्नानां गण्डान्तं त्रिविधं स्मृतम्। नवपञ्चचतुर्थानां ह्येकार्द्धघटिकामितम्।। इति अभुक्तमूलप०-अभुक्तमूलम्। मूलर्क्षघटिकाविशेष:। तद्यथामूलस्यारम्भत: प्रथमाष्टघट्य:, ज्येष्ठाया अन्तिमपञ्चघट्यः। एवं त्रयोदशघट्यात्मकः कालोऽभुक्तमूलकालो ज्ञेयः।
आयुर्भेदाः-(१) अनायुः, (२) अल्पायुः, (३) मध्यायुः (४) दीर्घायुः, (५) पूर्णायुः, (६) अमितायुश्चैते उषन्ता: क्लीबलिङ्गाः।
अनायुःप०-अनायुः (उष्) (न०), तत्कालमरणम्, तत्क्षणमरणम्, सद्योमरणम्। अल्पायुःप०-अल्पायुः, तुच्छायुः, स्वल्पायुः। मध्यायुःप०-मध्यमायुः, मध्यायुः। दीर्घायु:५०–उत्तमायुः, चिरायुः, दीर्घायुः, महत्तरायुः, विपुलायुः।
पूर्णायुः५०-परमायुः, पूर्णायुः, साग्रवर्षशतम् (न०), मानवायुः (न०), सपञ्चनिशाविंशत्युत्तरसमानां शतम्।
तदुक्तम्-'जीवेद्वर्षशतसाग्रमपमृत्युविवर्जिततम्।' इति दुर्गासप्ततशत्याम्। इह स्पष्टमाह वराह:-'समा षष्टिद्विघ्नी मनुजकरिणां पञ्च च निशा' इति बृहज्जातके। अमितायुःप०-अमितायुः, प्रामाण्यरहितायुः।
यदुक्तं केशवेन'कर्कीन्द्विज्ययुतोदये बुधसितौ केन्द्रे त्र्यरीशेतरैरायुर्विद्धयमितमिति जातकपद्धतौ।
रामायणे तु तन्मानमुक्तम्'दशवर्षसहस्राणि दशवर्षशतानि च। वसामि मानुषे लोके पालयन् पृथिवीमिमाम्।। इति।
आयुषोऽन्यभेदाः-(१) अनियतम्,(२) नियतम्, (३) योगोत्थितम, चैत आयुषस्त्रयो भेदाः सन्ति।
अनियतपर्याया:-अनियतायुः, अमितायुः, दिव्यायुः। नियतायुःप०-गणितागतम्, ग्रहगणितजम्, नियतम्।। योगोत्थितायुःप०-जातकायुः, योगजायुः, योगोत्थितायुः।
गणितागतायुभेदाः-(१) अंशायुः, (२) निसर्गायुः, (३) पिण्डायुः, (४) जीवायुः, (५) मिश्रायुः, (६) भिन्नाष्टकवर्गजायुः, (७) समुदायाष्टकवर्गजायुः, (८) मिश्रायुः, (९) रश्मिजायुः, (१०) नक्षत्रजायुः, (११) नवांशजायुः, (१२) केन्द्रजायुः, (१३) जैमिनीयायुः, (१४) वादरायणायुः। आयुषोऽन्ये भेदा अपि सन्ति।
For Private and Personal Use Only