________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४२
ज्योतिर्विज्ञानशब्दकोषः नतप०–नतम् (पुं०न०) एतद्दशमलग्नसाधनोपकरणम्)। नतभेदौ-(१) नतम्, (२) उन्नतञ्चैतौ नतस्य द्वौ भेदौ स्याताम्। तदुक्तं ग्रन्थान्तरे'अभीष्टकालो धुदलेन वर्जितोऽथो त्रिंशतश्चेदधिक: खषट् च्युतः। नतं परं प्राक्खगुणाल्पकाधिके ताभ्यां विहीना: खगुणा इहोन्नते।। इति।१/२।
नतप्रभेदाः-(१) पूर्वनतम् (दिनार्द्धत: प्राक्काल:) (२) पूर्वोन्नतम् (निशीथत: पर: काल:), (३) पश्चिमनतम् (दिनार्द्धतः परो यात: काल:), (४) पश्चिमोन्नतम् (निशीथतः प्राक्कालः) चैते नतस्य चत्वारः प्रभेदाः सन्ति।
भावपर्यायाः-भावाः, तन्वादयः, तेषां पर्यायास्तु प्रागेवोक्ताः। दृष्टिपर्यायाः-दृक (श्) (स्त्री०), दृष्टिः (स्त्री०) शेषस्त्वन्यत्रः। द्रष्टप०-दर्शक: (त्रि०), दर्शयिता (तृ) (त्रि०), द्रष्टा (ष्ट्र) (त्रि०), पश्यतीति। दृश्यप०-दृश्यम्, द्रष्टव्यम्, दर्शनीयम्, द्रष्टुंयोग्यं, चैते त्रिलिङ्गाः सन्ति।
यदुक्तं केशवेन'खैकाग्निद्विखवेदरामयमभूखाभ्राभ्रमेकादिभे द्रष्ट्रावर्जितदृश्यकस्येति' जातकपद्धतौ।
बलप०-ऊर्जम्, ओज: (अस्) तरः (अस्), दृढम्, द्रविणम्, धीरः, धीरता, पराक्रम:, प्राणः, बलम्, वीर्यम्, शक्ति:, शुष्मम्, शौर्य्यम्, सत्त्वम्, सह: (अस्), सारम्, स्थाम (अन्)।
बलभेदौ-(१) ग्रहबलम्, (२) भावबलम्, चैतौ बलस्य द्वौ भेदौ स्याताम्।
ग्रहबलभेदाः-(१) स्थानबलम्, (२) दिग्बलम्, (३) कालबलम्, (४) निसर्बलम्, (५) चेष्टाबलम्, (६) दृग्बलं, चैतानि ग्रहाणां षड्बलानि सन्ति।
स्थानबलप्रभेदाः-(१) उच्चबलम्, (२) सप्तैक्यजबलम्, (३) केन्द्रादिबलम्, (४) युग्मायुग्मबलम्, (५) द्रेष्काणबलम्, चेतेषां पञ्चानां योग: स्थानबलं ज्ञेयम्। दिग्बलपर्यायाः-आशाबलम्, दिग्बलम्, दिशाबलम्, हरिद्वलम्।
तदानयनमुक्तं केशवेन'मन्दाल्लग्नमिनात्कुजाच्च हिबुकं शोध्यं विधो गवान्माध्यं ज्ञाद्गुरुतोऽस्तमत्र रसभात्पुष्टं त्यजेच्चक्रतः। दिग्वीर्यं रसहत्' इति जातकपद्धतौ॥
कालबलप्रभेदाः-(१) पक्षबलम्, (२) नतोन्नतबलम् (३) धुरात्रित्र्यंशबलम्, (४) वर्षेशादिबलं चैतेषां चतुर्णा योग: कालबलं बोध्यम्।
वर्षेशादिबलप्रभेदाः-(१) वर्षेशबलम्, (२) मासेशबलम्, (३) दिनेशबलम्, (४) कालहोरेशबलं चैतेषां चतुण्ाँ योगो वर्षेशादिबलं ज्ञेयम्।
कालहोराप०-कालहोरा (स्त्री०)। अस्या आनयनविधिरुक्तो रामेण'वारादेर्घटिका द्विघ्नाः स्वाक्षहच्छेषवर्जिताः। सैकास्तष्टा नगैः कालहोरेशा दिनपात् क्रमात्।।' इति मुहूर्त्तचिन्तामणौ।।१।।
For Private and Personal Use Only