________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३६
ज्योतिर्विज्ञानशब्दकोषः (३) वरजनने खलांतर्गत: सखलश्च सितोनेष्टः।
अथवा सितात्सुखास्तमृतिगाः पापा न शस्ता एवं कन्याजनने चन्द्रादपि चिंतनीयाः।
विवाहपर्यायाः-उद्वाहः, उपयमः, उपयमनम्, उपयामः, करकमलपीडनम्, करकमलसंग्रहः, करग्रहः, करग्रहणम्, करतलग्रहः, करतलग्रहणम्, करनिपीडनम्, करपीडनम्, करपीडा, करवारिजसंग्रहः, कराब्जग्रहणम्, कराम्बुजार्दनम्, कराम्बुरुहग्रहणम्, करार्दनम्, करोत्पलग्रहः, दारकर्म (अन्), दारक्रिया, दारपरिग्रहः, दोर्ग्रहः, दोहक्रिया, दोर्वारिजार्दनम्, परिणतिः, परिणयः, परिणयनम्, पाणिग्रहः, पाणिग्रहणम्, पाणिग्रहोत्सवः, पाणिनिपीडनम्, पाणिपयोजपीडनम्, पाणिपयोजपीडा, पाणिपीडनम्, पाणिपीडनविधि: पाणिपीडा, पाणिविषोदयग्रहः, प्रवेष्टपानीयरुहार्दनम्, प्रवेष्टपीडा, प्रवेष्टोत्पलसंग्रहः, भुजग्रहः, भुजतोयजग्रहः, भुजवारिजग्रहः, भुजाब्जग्रहणम्, भुजाब्जपीडा, भुजाभ्रपुष्पप्रसवग्रहः, भुजाम्बुजग्रहः, भुजाम्बुजनिपीडनम्, वाधुक्यम्, विवाहः, विवाहकार्यम्, विवाहोत्सवः, शयकुशेशयमर्दनम्, शयग्रहः, शयग्रहणम्, शयतोयजग्रह;, शयपीडनम्, शयाम्बुजग्रहः, शयसंग्रहः, समुद्वाहः, समुद्वाहविधि:, हस्तग्रहः, हस्तग्रहणम्, हस्तपीडनम् इति।
इह पद्यान्यत्रावलोक्यन्तेपाणिग्रहः परिणय: करपीडनं च दारक्रियोपयम-पाणिपयोजपीड़ा। दोर्वारिजार्दन-करग्रहणो-पयामोद्वाहा, भुजाम्बुजनिपीडन-पाणिपीडे।। शयग्रहः, पाणिपयोजपीडनं करार्दनं हस्तनिपीडनं तथा। भुजाब्जपीडा भुजवारिजग्रहः प्रवेष्टपीडा शयतोयजग्रहः।। विवाह-वाधुक्य-करग्रहाश्च हस्तग्रहो दारपरिग्रहश्च। भुजाभ्रपुष्पप्रसवग्रहश्च प्रवेष्टपानीयरुहार्दनं च। दारकर्म भुजतोजग्रहः पाणिपीडन-कराम्बुजार्दने। हस्तपीडन-करोत्पलग्रहौ दोर्ग्रहः परिणतिर्भुजग्रहः।। इति। विवाहाग्निपरिग्रहपर्यायाः-आवसथ्याधानम्, उद्वाहपावकपरिग्रहः, विवाहाग्निपरिग्रहः। त्रेताग्निसंग्रहपर्यायाः-त्रेताग्निसंग्रहः, त्रेतानलसंग्रहः, श्रौताधानम्। वेदारम्भपर्याया:-आम्नायोपक्रमः, वेदारम्भः, श्रुतिप्रक्रमः। वेदव्रतपर्यायाः-आगमव्रतविधिः, वेदव्रतम्, श्रुतितपः श्रुतिनियमः। महानाम्नीव्रतपर्यायाः-महानाम्नीतपः, महानाम्नीनियमः, महानाम्नीव्रतम्। उपनिषव्रतपर्यायाः-उपनिषत्तपः, उपनिषन्नियमः, उपनिषत्पुण्यकम्, उपनिषद्वतम्। क्षुरिकाबन्धपर्याया:-क्षुरिकाबन्धः, छुरिकाबन्धः, छुरिकाबन्धनम्।
केशान्तपर्याया:-कचान्तः, केशान्तः, केशान्तकर्म, केशान्तकृत्यम्, केशान्तक्रिया, गोदानम्।
समावर्तनपर्यायाः-मेखलामोकः, मेखलाव्रतविमोचनम्, मौञ्जीबन्धविमोचनम्, मौजीविमोक्ष:,
For Private and Personal Use Only