________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुहूर्तादिसर्गः
१३५ वश्यप्रभेदाः-(१) द्विपदः (नर:), मिथुन' कन्या'-तुलाकुम्भाश्चापाद्यश्च, (२) चतुष्पदाः (पशव:) (गोसिंहमृगमेषा नक्राद्यखण्डं चापपराद्धं च)। (३) कीट: कुलीर:), (४) सरीसृपः (अलि:)। जलचरौ (मृगोत्तरार्द्ध मीनश्च), यथा
'हरि' हित्वा सर्वे नृणां वश्याः अलिं विना सर्वे हरेर्वश्याः। 'ताराप्रभेदाः-(१) जन्म (अन्), (२) सम्पत् (द), (३) विपत् (द), (४) क्षेमः, (५) प्रत्यरिः, (६) साधकः, (७) वधः, (८) मैत्र:, (९) अतिमैत्र-श्चेत्येता नवतारा: संति। आसु त्रि-पञ्च सप्त:-नेष्टाः।
योनिप्रभेदाः-(१) अश्वः, (२) गजः, (३) मेष:, (४) सर्पः, (५) श्वानः, (६) मार्जार:, (७) मूषकः, (८) गौः (गो), (९) महिषः, (१०) व्याघ्रः, (११) मृगः, (१२) वानरः, (१३) नकुलः, (१४) सिंहश्चेत्येता: चतुर्दश योनय: संति। आसु या: साहजिकवैरयोनयस्ता न शस्ताः स्युः।
ग्रहमैत्रीप्रभेदाः-(१) मित्रम्, (२) समः, (३) शत्रुः। एते प्रागेवोक्ता इह तु प्रासङ्गिकाः। उभयोर्वरकन्ययो राशिनवांशपत्योर्मिथः शत्रुता चेत्तदामेलनं न शस्तम्।
गणप्रभेदाः-(१) देव:, (२) मनुष्यः, (३) राक्षस-श्चेति त्रयो गणाः सन्ति। रक्षोगणजा कन्या न शस्ता। यदा वरो मनुजगणजस्तयोर्मेलनं न शस्तम्।
भकूटप्रभेदाः-(१) त्रिकोणम् (नवमपञ्चमराशी), (२) द्विादश: (द्वितीयद्वादशराशी), (३) षडष्टकम् (षष्ठाष्टमराशी), विषमभजाया: कन्याया भाद्वरभं षष्ठं न सत्। एवं तस्याः समभजाया भाद्वरभमष्टमं तदपि न शोभनम्। अन्यत्सर्वमविचारणीयम्। - नाडीप्रभेदाः-(१) आद्यनाडी, (२) मध्यनाडी, (३) अन्त्यनाडी-चेत्येतास्तिस्रो नाड्य: सन्ति। यदोभयोर्वरवध्वोर्जन्म मध्यनाडीनक्षत्रेषु भवेत्तदा मेलनं न सत्। मध्यनाडीदोषस्तु सर्वथा त्याज्य:। ___ वर्गभेदाः-(१) अवर्गः, (२) कवर्गः, (३) चवर्गः, (४) टवर्गः, (५) तवर्ग:, (६) पवर्गः, (७) यवर्गः, (८) शवर्ग-श्चेत्येतेऽष्टौ वर्गा: संति।
वर्गस्वामिनामानि--(१) गरुडः, (२) विडाल:, (३) सिंह:, (४) श्वानः, (५) सर्पः, (६) मूषकः, (७) मृग, (८) मेषश्चैतेऽवर्गात् क्रमादष्टवर्गाणां स्वामिन: संति। तत्र निजवर्गत: पञ्चमो वर्गों नो शोभन:।
रेवत्यादिभानां भागभेदा—(१) पूर्वभाग: (तत्र रेवतीत: षण्णक्षत्राणि), (२) मध्यभाग: (तत्रार्द्राभतो द्वादशनक्षत्राणि), (३) परभागः (तन्द्रभतो नव नक्षत्राणि), पूर्वभागे वर: श्रेष्ठः। परभागे वधूः श्रेष्ठा। मध्ये तु द्वयोः सुमतिः।।
नृदूरपर्यायः-नृदूरम्। 'इह कन्याजन्मभाद् द्वितीयनक्षत्रे वरजन्म न सत्। ग्रहमेलनभेदाः-(१) वरवध्वोर्जन्माङ्गात्तनुसुखास्तमृत्यन्त्यग: कुजो नेष्टः।
(२) तत्रगता: पापा अपि नेष्टाः। १० ज्यो.वि.शब्दकोष
For Private and Personal Use Only