________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुहूर्त्तादिसर्गः
·---
तदुक्तम्
'दक्षिणे दुःखदो दैत्यपूज्यो हन्त्यक्षि सम्मुखे । मूढयो रोधयेच्छस्तं शस्तः स्यात्पृष्ठवामयोः ।। इति हो०च०११० / ४१
स्थानशुद्धि: - भावानां निर्दोषता । 'उक्तञ्च' 'ग्रन्थान्तरे
‘विवाहे सप्तमं शुद्धं यात्रायामष्टमं तथा । दशमं च गृहारम्भे चतुर्थं च प्रवेशने । । इति ।। अथाष्टकवर्गशुद्धिः– ‘अष्टवर्गविशुद्धेषु गुरुशीतांशुभानुषु । व्रतोद्वाहौ च कर्तव्यौ गोचरेण कदापि न ।। इति राजमार्तण्डः ।
तत्रैव - अष्टवर्गेण ये शुद्धास्ते शुद्धाः सर्वकर्मसु । सूक्ष्माष्टवर्गसंशुद्धिः स्थूला शुद्धिस्तु गोचरे || 'अभावतो गोचरशोभनानां शुद्धिं वदेद् भागुरिरष्टवर्गात्। वैधव्यकन्याक्षयहेतुयोगे जीवाष्टवर्गस्य वदेत्तु शुद्धिम् ।। इति । ‘विफलं गोचरगणितं ह्यष्टकवर्गेण निर्दिशेत्पुंसाम् । रेखाधिक्ये शुभदं बिन्द्वधिके नैव शोभनं प्रायः ॥ इति । शुभपर्यायाः - प्रशस्तम्, शस्तम्, शुभम् सत्, शेषस्तु ग्रहे । कार्य्यप ० – अर्थः, कार्यम्, कृत्यम्, प्रयोजनम्।
१३३
कर्मप ० – कर्म (अन्) (न०), क्रिया (स्त्री), विधा (स्त्री) ।
कर्मवाचकशब्दाः - करणम्, कर्म (अन्), कृति:, क्रिया ।
विधानपपर्यायाः - करणम्, कर्म (अन्), विधानम्, विधि: (पुं० ) |
संस्कास्पर्यायः – संस्कारः (पुं०) संस्क्रियतेऽनेन श्रौतेन स्मार्तेन वा कर्मणा पुरुष इति संस्कार: । 'गर्भाधानादिः ।।'
संस्कारभेदाः (१) गर्भाधानम्, (२) पुंसवनम्, (३) सीमन्तोन्नयनम्, (४) जातकर्म (अन्), (५) नामकर्म (अन्), (६) निष्क्रम:, (७) अन्नप्राशनम्, (८) चूडाकर्म (अन्) (९) उपनयनम्, (१०) वेदारम्भ:, (१०) महानाम्नीव्रतम्, (१२) उपनिषद्व्रतम्, (१३) वेदव्रतम्, (१४) गोदानम्, (१५) मेखलोन्मोक्षः, (१६) विवाहश्चेत्येते षोडशमुख्यसंस्काराः सन्ति ।
गर्भाधानपर्यायाः - आधानम्, आधानविधिः, आधानिकम्, कुसुमप्रतिष्ठा, गर्भप्रतिष्ठा, गर्भस्थापनम्, गर्भाधानम्, गर्भाधानविधानम्, गर्भाधानविधिः, जीवसेकः, निषेक:, निषेककर्म (अन्)।
For Private and Personal Use Only
पुंसवनप० – गर्भरक्षणम्, गर्भसंस्कारः, पुंसवम्, पुंसवनम् । पुमान् सूयतेऽनेन।
सीमन्तोन्नयनप ० – सीमन्त:, सीमन्ताख्यम्, सीमन्तविधानम्, सीमन्तकर्म (अन्), सीमन्तोन्नयनम्। 'सीमन्तस्य तदाख्यगर्भसंस्कारस्योन्नयनमुद्भावनम्।
0
विष्णुपूजाप ० - विष्णुपूजनम्, विष्णुपूजा, विष्ण्वर्चनम्, विष्णवर्चा । एषा तृतीयमासे कर्त्तव्या ।
जातकर्मपर्यायाः - जातकर्म (अन्), जातकर्मक्रिया, जातक्रिया,
मेधानि: ।
जातकृत्यम्,