________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३२
ज्योतिर्विज्ञानशब्दकोषः
करणं 'ग्रन्थान्तरे' यथा - सर्वं भपाश्रितं कर्मेति ।। 'द्वयो ( वरकन्ययोः) स्तथा । ग्राह्यं शशाङ्कस्य बलमिति। कलहश्चतुर्थे इति । मृत्युरिहाष्टमाख्ये इति । 'द्वादशे हानिरीरिता ।' इति च।। इह गोचरे जन्मचन्द्रराशित उक्तस्थानगत अर्थाच्चतुर्थाष्टमान्त्यगतश्चन्द्रो नेष्टः । कार्यभेदतो द्वादशगतश्चन्द्रस्य परिहार उक्त:। 'पट्टबन्धनचौलान्नप्राशने चोपनयने' । पाणिग्रहे प्रयाणे च चन्द्रमा व्ययगः शुभः । ' इति । क्षौरे यात्रायां च जन्मराशिस्थश्श्चन्द्रो नेष्टः । क्षौरे प्रयाणे न शुभो जनीन्दु:' इति । सर्वारम्भशुद्धिः - लग्नचन्द्रयोः शुभता । 'तदुक्तं होडाचक्रग्रन्थे 'सर्वारम्भ: शुभोऽन्त्याष्टशुद्धोपचयभेऽङ्गगे।
सद्दृग्युते स्वभाङ्गर्क्षात्खायत्रिषड्गते विधौ ।। इति । पृ०४४ श्लो०११७ लग्नशुद्धिः – लग्ननिर्दोषता । अत्राह रामः -
' अयोगे सुयोगोऽपि चेत्स्यात्तदानीमयोगं निहत्यैष सिद्धिं तनोति । परे लग्नशुद्ध्या कुयोगादिनाश मिति। अथवा—
भार्या' त्रिवर्गकरणं शुभशीलयुक्ता शीलं शुभं भवति लग्नवशेन तस्याः । तस्माद्विवाहसमये परिचिन्त्यते हि तन्निध्नतामुपगताः सुतशीलधर्माः । इति मु०चिं०६-१ नवांशशुद्धिः - तन्वंशकौ चन्द्रयुतौ खलाढ्यौ सर्वेषु सत्कर्मसु वर्जनीयाँ |
इति बृ० हो०च०१०८/४१ रविशुद्धिः -- रविनिर्दोषता । अत्राह रामः - रविशुद्धिवशाच्छुभो वाराणमिति । होडाचक्रेऽपि - भानोः शुद्धौ गृहारम्भो व्रतोद्वाहाविनेज्ययोः । इति हो०११६/४३ । वरस्य मार्तण्डबलं विलोकयेत् इति। करग्रहे। मृत्युप्रदोऽर्को निधने व्यये सुखे । सत् पूजयाऽर्को जनुरस्तधीतपः स्वगो रविस्तूपचये शुभप्रदः, इति । अत्र विशेषमाह – गर्गो मुनिश्चाथ वसिष्ठकश्यपौ पाराशराद्या मुनयो वदन्ति । द्वितीयपुत्राम्बुगतो दिवाकरस्त्रयोदशाहात्परतः शुभावहः ।। इति ।
गुरुशुद्धि: - गुरुनिर्दोषता । अत्राह रामः -
गुरुशुद्धिवशेन कन्यकानां समवर्षेषु षडब्दकोपरिष्टात् । ' इति । ‘अपि च’— वटुकन्याजन्मराशेस्त्रिकोणायद्विसप्तगः। श्रेष्ठो गुरुः खषट्या पूजयाऽन्यत्र निन्दितः ।
नैधनशुद्धिः – लग्नादष्टमस्थानस्य निर्दोषता । अर्थात्तत्र शुभाशुभग्रहाभाव: । 'संशुद्धे मृतिभवने' इति राम: । ' नैधने शुद्धियुक्ते इति च ।
गोचरशुद्धिः - गोचरस्य निर्दोषता । यथा'केतूपप्लवभौममन्दगतयः षष्ठत्रिसंस्थाः शुभा - श्चन्द्रार्कावपि ते च तौ च दशमौ चन्द्रः पुनः सप्तमः । जीवः सप्तनवद्विपञ्चमगतो युग्मेषु सोमात्मज:, शुक्रः षड्दशसप्तवर्ज्जमितरे सर्वेऽप्युपान्ते शुभाः ।। इति । ताराशुद्धिः - तारानिर्दोषता | ताराशुद्धौ शुभं चौलमिति । त्रिपञ्चाद्रिरहिततारासु चूडाकर्म शुभं स्यादित्यर्थः ।
दिनर्थं गणयेद्यावद्गोहच्छेषे त्वसत्त्रिभम् पञ्चाद्रिभं तथा' हो०च०११५/४३ शुक्रशुद्धिः - शुक्रस्य निर्दोषता :
For Private and Personal Use Only