________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३०
ज्योतिर्विज्ञानशब्दकोषः (४) मालव्य:, (५) शशश्चैते भौमात् क्रमात् पञ्चमहापुरुष (राज) योगा ज्ञेयाः।
भास्करादीनां विविधयोगानां नामानि-भास्करः, इन्द्र, मसत (द्), शकट:। लग्नाधियोगः, गजकेसरी (इन्), अमला (स्त्री), शुभः। अशुभः, कर्तरी (स्त्री), पर्वत:, काहलः, मालिका (स्त्री), चामरः, शंख:, भेरी (स्त्री), मृदङ्गः, श्रीनाथः, शारदा (स्त्री) मत्स्यः । कूर्मः। खड्गः । लक्ष्मी (स्त्री०) कुसुमः, पारिजातः। कलानिधिः, अंशावतार:, ब्रह्म (अन्)। रज्जू: (स्त्री), मुसलः, नल:, माला (स्त्री), व्याल:, गदा (स्त्री), शकट:, विहङ्गः, शृङ्गाटकः, हलम्, वजः (पुं०न०), यवः, कमलम्, वापी, यूपः, शरः, शक्ति: (स्त्री), दण्डः, नौका (स्त्री), कूट:, छत्रम्, कार्मुकम्, अर्द्धचन्द्रः, चक्रम्, समुद्रः, गोलः, युगम्, शूलम्, केदारः, पाशः, दामिनी (स्त्री), वीणा (स्त्री), सिंहासनम्, ध्वजः, हंसः, राजहंसः, कारिका (स्त्री), एकावल (स्त्री) चतुःसागरः, अमरः, चापः, दण्डः, शकटः, नन्द (स्त्री) दाता (तृ), चिह्निपुच्छ:,लालाटि: (स्त्री), दोला, बुधादित्य:,जलम्, श्रीछत्रम्, सिंहासनम्, चतुश्चक्रम्, प्रव्रज्या (स्त्री) इत्येते भास्करादयो विधिधयोगाः सन्ति, एषां लक्षणानि फलानि च जातकेषु द्रष्टव्यानि, अथवा सारावली, जातकपारिजात आदि ग्रन्थेऽवलोकितव्यानि। ___ताजिकशास्त्रीययोगनामानि–(१) इक्कवालः, (२) इन्दुवारः, (३) इत्थशालः, (४) ईसराफः, (५) नक्तम्, (६) यमया, (७) मणऊं, (८) कम्बूलः, (९) गैरिकम्बूलः, (१०) खल्लासरम्, (११) रद्दम, (१२) दुफालिकुत्थम्, (१३) दुत्थोत्थदिवीरः, (१४) तम्बीर:, (१५) कुत्थः, (१६) दुरुफः, इत्येते ताजिकशास्त्रीयषोडशयोगा: सन्ति। तत्र ईसराफः, मणऊ, रद्दम, दुरुफश्चैतेऽशुभयोगाः। एते सर्वे इत्थशालस्य भेदा: सन्ति। अमीषा लक्षणादिकं विस्तरतो ताजिकशास्त्रीय ग्रन्थे द्रष्टव्यम्।
वर्षीयपञ्चाधिकारिणां नामानि–(१) जन्मलग्नेशः, (२) वर्षलग्नेश:, (३) मुन्थाराशीश: (मुन्थेशः), (४) त्रिराशीशः, (५) दिवा रविराशीशः। 'नक्तम्' चन्द्रराशीशः। एषां पञ्चाधिकारिणां मध्ये योऽधिकबली लग्नं पश्यति स वर्षराड् बोध्यः।।
हर्षबलपर्यायः-हर्षबलम्, (वर्षे बलविशेष:)।
हर्षबलभेदाः-(१) स्थानबलम्, (२) स्वगृहोच्चबलम्, (३) स्थानत्रयात्मकपुंस्त्रीबलम्, (४) दिवारात्रौ क्रमेण पुंस्त्रीबलम्। तेषां योग: कार्यस्तद्धर्षबलम्। यस्य ग्रहस्य बलयोग: पञ्चाल्प: स हीनबलो बोध्यः।
हद्दापर्यायौ-हद्दम् (न०), हद्दा (स्त्री)। द्रेष्काणप०-दृगाणः, द्रेष्काणः, शेषस्त्वन्यत्र। नवांशप०-नवांशः, मुसल्लहः, शेषस्त्वन्यत्र।
पञ्चवर्गीयवलनामानि-(१) स्वगृहबलम्, (२) स्वोच्चबलम्, (३) हद्दाबलम्, (४) द्रेष्काणबलम्, (५) मुसल्लहबलम्, इत्येषां योगश्चतुभिर्विभक्तो विंशोपका स्यात्।
सहमपर्यायौ–सद्य (अन्) (न०), सहमम् (न०)।
For Private and Personal Use Only