________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भावादिसर्गः
१२९ सप्तांशप०-सप्तमांशः, सप्तांश: नगांश:, शैलांशः।
नवांशप०-अंश:, अंशक:, अङ्कभागः, अङ्कलवः, अङ्कांश:, अड्कांशकः, कला, गोंश:, गोंशकः, गोभागः, गोलवः, नन्दांश:, नवभागः, नवलव:, नवांश:, नवांशकः।
दशमांशप०-दशमभागः, दशमलव:, दशमांशः, दशमांशक:, दिगंशः, दिग्लवः। द्वादशांशप०-अर्काशः, अर्काशकः, द्वादशभागः, द्वादशलव:, द्वादशांशः, द्वादशांशकः। षोडशांशप०-नृपांश:, नृपांशकः, षोडशभागः, षोडशलवः, षोडशांशः, षोडशांशकः।
त्रिंशांशप-त्रिंशद्भागः त्रिंशद्लव: त्रिंशांश:, त्रिंशांशक:, खगुणभागः, खगुणांशक: खगुणांशः।
षष्ट्यंशप०-खरसांश:, खरसांशकः, खतांशः, षष्टिभाग:, षष्टिलवः, षष्ट्यंश:, षष्ट्यंशकः। - अवस्थाभेदाः-(१) दीप्ताद्या:, (२) बालाद्याः, (३) जाग्रदाद्याः, (४) शयनाद्याः, (५) दृष्ट्याद्याः, (६) गर्विताद्या श्चेत्येते ग्रहाणामवस्थानां षड्भेदाः सन्ति। इति।
दीप्तादीनां नामानि-(१) दीप्त:, (२) स्वस्थः, (३) मुदित: (प्रमुदित:), (४) शान्त:, (५) शक्तः, (६) प्रपीडितः, (७) दीन:, (८) खलः, (९) विकल:, (१०) भीतश्चैतानि दीप्तादीनां नामानि। - बालादीनां नामानि-(१) बालः, (२) कुमारः, (३) युवा (अन्), (४) बुद्धः, (५) मृतश्चैतानि बालादीनां नामानि।
जाग्रदादीनां नामानि–(१) जाग्रत् (द्), (२) स्वप्न:, (३) सुषुप्तिः (स्त्री०), इत्येतानि जाग्रदादीनां नामानि।
शयनादीनां नामानि–(१) शयनम्, (२) उपवेशः, (३) नेत्रपाणिः, (४) प्रकाश:, (५) गमनम्, (६) आगमनम्, (७) सभायां वसति:, (८) आगमः, (९) भोजनम्, (१०) नृत्यलिप्सा, (११) कौतुकम्, (१२) निद्रा, चैतानि शयनादीनां नामानि।
दृष्ट्यादीनां नामानि-(१) दृष्टिः, (२) चेष्टा, (३) विचेष्टा, चैतानि दृष्ट्यादीनां नामानि।
गर्वितादीनां नामानि–(१) गर्वित: (सगर्व:), (२) मुदितः, (३) लज्जित:, (४) संशोभित:, (५) क्षुधितः, (६) तृषार्तकश्चैतानि गर्वितादीनां नामानि।
दाराहादियोगनामानि-(१) दारहयोगः, (२) बालवैधव्ययोगः,(३) मृतापत्योगः, (४) राजयोगः, (५) राज्यपप्राप्तियोगः, (६) विवाहयोगः, (७) विषकन्यायोग:, (८) वैधव्ययोगः, (९) षट्क्लीवयोगाः, (१०) सन्ततियोगश्चेत्यन्येऽपि योगा: स्युः।
चन्द्रजनितयोगनामानि–(१) सुनफा, (२) अनफा, (३) दुरुधरा, (४) केमद्रुमश्चैते चत्वारश्चन्द्रजनितयोगास्तेष्वन्तिमो दरिद्रयोगो ज्ञेयः।
रविजनितयोगनामानि–(१) वेशि:, (२) वोशि:, (३) उभयचरिः, (४) कर्तरी, चैते चत्वारो रविजनितयोगा अत्रापि कर्तरी न शस्तः।
भौमादिग्रहजनितपञ्चमहापुरुषयोगनामानि- (१) रुचकः, (२) भद्रः, (३) हंसः,
For Private and Personal Use Only