________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भावादिसर्गः
१२१ मूलेन्द्रयोर्दिवा गण्डो निशायां पितृसर्पयोः । सन्ध्याद्वये तथा ज्ञेयो रेवतीतुरगङ्ख्योः ' इति श०चिं०२/१/७७१-७२।
खेटमण्डलान्तरप०-खेटमण्डलान्तरम्, ग्रहबिम्बकेन्द्रान्तरम्। ॥ इति बिहारप्रान्तसहरसामण्डलान्तर्गतदोरमाग्रामवास्तव्येन दैवज्ञचूड़ामणिश्रीसूर्यनारायणसूनुना डॉ० सुरकान्तझाख्येन ज्योतिर्विज्ञानशब्दकोषे ग्रहगणितसर्गः अष्टमः ॥८॥
अथ भावादिसर्गः-९ भावपर्यायौ-भावः, तन्वादिः।
भावभेदाः-(१) तनुः, धनम्, (३) सहजः, (४) सुखम् (५) सुतः, (६) रिपुः, (७) जाया, (८) मृत्युः, (९) धर्मः, (१०) कर्म (अन्) (न०), (११) लाभ:, (१.२) व्ययः,चेत्येते द्वादशभावाः सन्ति।
तनुवाचकशब्दाः-(१) क४म्, ख१०म्, प्राक्, (२) अङ्गम्, आपत्मा (अन्), आदिः, आध:, कल्पम्, कल्यम्, काय:, कु१०लम्, क्षेत्र४म्, गात्रम्, घनः, च्युतिः, जन्म (अन्), तनुः, तनूः, देहः, पिण्डम्, पुरम्, पूर्वः, पौरम्, मूर्तिः, मूर्धा (अन्), मूलम्, लग्नम्, लेखा, वपुः (उष्), वर्म (अन्), शक्तिः , शिरः (अस्), शीर्षम्, होरा (३) आदिमः, उदय: उदयन् (त), उद्गतः, उद्गमः, पुद्गलः, प्रथमम्, प्राक्कुजम्, प्राग्लग्नम्, भूकेन्द्रम्, विग्रहः, विलग्नम्, शरीरम्, सामर्थ्यम्, हरिजम् (४) अभ्युदितम्, उत्तमाङ्गम्, उदयाद्रिः, कञ्जासनम्, कलेवरम्, जीवगृहम्, निर्विलग्नम्, प्राविक्षतिजम्, प्राग्विलग्नम्, संहननम्, समुदयः, समुद्गतः समुद्गम:, होरालेखा, (५) उदयगिरिः, उदयाचलः, पूर्वविलग्नम्, प्रथमलग्नम्, (६) उदयशिखरिः। इति।
धनप०-(१) गी: (गिर ), दृग् (श्), द्विः, धम्, रा: (रै), वाक् (च), स्वम्, (२) अक्षि (न्), अर्थः, आस्यम्, ऋक्थम्, कोश:-षः, गिरा, गोत्र १०म्, दृष्टिः, द्युम्नम्, द्रव्यम्, धनम्, धान्यम्, निधिः, नेत्रम्, पोष्यम्, ब्राह्मी, भाषा, उक्तिः, मुखम्, रिक्थम् वक्त्रम्, वचः (अस्), वसु, वाणी, वित्तम्, सारम्, (३) आननम्, ईक्षणम्, कुटुम्बम्, कौटुम्बम्, द्रविणम्, द्वितयम, द्वितीयम्, नयनम्, निधानम्, भर्त्तव्यम्, भारती, लपनम्, लोचनम्, वचनम्, वदनम्, वाक्स्थानम्, विभवम्, शेवधि:, हिरण्यम्, (४) परिच्छेदः, परिजनः, परिबर्हः, परि (री) वारः, पोष्यवर्गः, भरणीयम्, विलोचनम्, सरस्वती, स्वापतेयम्।
सहजवा०-(१) त्रिः, दो: (५),
(२) अस्त्रम्, उर: (अस्), ऊर्जम्, ओज: (अस्), कण्ठः , करः, गल:, तरः (अस), तेजः (अस्), त्रिकम्, दासः, धन्वी (इन्), धैर्यम्, पाणिः, प्राणः, प्रेष्यः, बलम्, बाहुः, बीजम्, भुजः, भुजा, भृत्यः, योद्धा (द्ध), योधम्, यौधः, लोकः, वक्षः (अस्), वह्निः (इ० कैश्चित्), वीर्यम्, शक्तिः, शुष्मम्, शौर्यम्, श्रवः (अस्), श्रुति:, श्रोत्रम्, सहः, सहः (अस्) (न०), स्थामन् (अन्), हस्तः। (३) अनुगः, अनुजः, उद्यमः, किङ्करः, तृतीयम्,
For Private and Personal Use Only