________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२०
ज्योतिर्विज्ञानशब्दकोषः युतिभेदाः-(१) युतिः (युद्धम्), (२) समागमः, (३) अस्तमनम्, चेति युतेस्त्रयो भेदा: स्युः। _ 'युद्धभेदाः-(१) भेदः, (२) उल्लेख:, (३) अंशुविमर्दनम्, (४) अपसव्यम् (असव्यम्), चेति युद्धस्य चत्वारो भेदाः स्युः।।
तद्भेदानाह मय:'उल्लेखं तारकास्पर्शाद् भेदे भेदः प्रकीर्त्यते। युद्धमंशुविमर्दाख्यमंशुयोगे परस्परम्।। अंशादूनेऽपसव्याख्यं युद्धमेकोऽत्र चेदणुः। समागमश्चेदंशादधिके भवतश्चेद्बलान्वितौ।। इति सूर्यद्धान्ते। युतिप०-युतिः, संयुतिः। वियुतिप०–वियुतिः, वियोगः। भेदप०-भेदः, वियोगः। भेदयुतिप०-भेदयुतिः, भेदवियोगः। 'पराजयप०-पराजयः, पराभवः, रणेभङ्गः। पातप०-पात:, पुष्पवत्क्रान्तिसाम्यम्। पातभेदौ-(१) वैधृतपात:, (२) व्यतिपातश्चेति द्वौ पातौ स्याताम्।
वैधृतपातप०-वैधृतपातः, समक्रान्तिकालः, महापातकालः। *व्यतिपातप०-व्यतिपात:, व्यतीपात:, क्रान्तिलिप्तासमकाल:। गण्डान्तप०-गण्डांतम् तिथिभाङ्गसन्धिः।
तदुक्तम् - 'नक्षत्रतिथिलग्नानां गण्डान्तं त्रिविधं स्मृतम्। न०ति०लन ति०ल० नव-पञ्च-चतुर्थानां द्वयेकार्द्धघटिकामितम् श-चिं-१/७७३ गण्डप०-गण्ड:, गण्डकालः, गण्डसमयः।
उक्तं च-- 'अश्विनीमघमूलानां तिस्रो गण्डाद्यनाडिका:। अन्त्याः पौष्णोरगेन्द्राणां पञ्चैव जवना जगुः॥
(१) अन्योन्यं ताराग्रहाणां योगो युद्धं समागमश्च स्याताम्। यदा ताराग्रहाणां मिलनं चन्द्रेण सह तदा समागमः। चेत्तेषां मिलनं सूर्येण सह तदाऽस्तमनं स्यात्।
उक्तं च-ताराग्रहाणामन्योन्यं स्यातां युद्धसमागमौ। समागम: शशाङ्केन सूर्येणास्तमनं सह।। इति सूर्यसिद्धान्ते।
(२) अस्य लक्षणमुक्तं भृगुसिद्धान्ते- 'श्यामो वा व्ययगतरश्मिमण्डलो वा रूक्षो वा व्ययगतरश्मिवान् कृशो वा आक्रान्तो विनिपतित: कृतापसव्यो विज्ञेयो हत इति स ग्रहो ग्रहेण।
इति सूर्यसिद्धान्तस्य रङ्गनाथटीकायाम्। (३) रवीन्द्वोः क्रान्त्योः साम्यम्।
(४) विपरीतायनगतयोश्चन्द्रार्कयोर्भगणार्द्ध तयोर्युतौ क्रान्तिलिप्ता: समाश्चेत्तदा व्यतीपातो नाम महापातो भवेत्।
For Private and Personal Use Only