________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्रहगणितसर्गः
११९ दृक्क्षेपभेदौ-(१) रविदृक्क्षेपः, (२) चन्द्रदृक्क्षेपश्चैतौ दृक्क्षेपभेदौ स्तः। 'विक्षेप०-विक्षेपः। चन्द्रपर्यायाः-इन्दुः, चन्द्रः, विधुः, शेषपर्यायाश्चन्द्रपर्याये द्रष्टव्याः। शृङ्गप०-कूणिका, विषाणम्, शृङ्गम्। उन्नतिप०-उदयः, उन्नतिः। 'चन्द्रशृङ्गोन्नतिप०-चन्द्रशृङ्गोन्नतिः, विधुशृङ्गोन्नतिः, शशिशृङ्गोन्नतिः।.
यदुक्तम्'विधुशृङ्गोन्नतिरीक्ष्यते यदह्नि तपनास्ते विधुरीक्ष्यतेऽन्यथा ना' इति ग्रहलाघवे। उदयप०-उदयः, उद्गमः, दर्शनम्। अस्तप०-अस्त:, लोपः, अदर्शनम्। कालांशप०-कालांशकाः, कालांशाः, क्षणांशका:, क्षणांशाः, दृश्यांशाः, समयांशाः।
कालांशानाह भास्कर:'दोन्दवः शैलभुवश्च शक्रा रुद्रा: खचन्द्रास्तिथयः क्रमेण। चन्द्रादितः काललवा निरुक्ता ज्ञशुक्तयोर्वक्रगयोर्द्विहीनाः। इति शिरोमणौ। पातांशप०-पातभागाः, पातलवाः, पातांशकाः, पातांशाः।
पातांशानाह गणेश:
'खाम्बुधयः खयमाः खभुजङ्गाः खाङ्गमिता: खदश क्रमशः स्युः। पातलवा: कुसुताद् बुधभृग्वोर्मध्यमचञ्चलकेन्द्रविहीना:।' इति ग्रहलाघवे। भप०-उडु, नक्षत्रम्, भम्। प्रहप०-खगः, खेटः, ग्रहः, धुचरः, घुगतिः। युतिप०-युतिः, योगः, संयुतिः। "भग्रहयुतिप०-नक्षत्रग्रहयोगः, भग्रहयुतिः। भग्रहयुतिमाह-नृसिंहदैवज्ञ:'धुचरभध्रुवकान्तरलिप्तिका घुगतिभुक्तिहता हि गताऽगतैः। फलदिनैर्युचरेऽधिकहीनके युतिरिहेतरथा खलु वक्रिणि।।' इति ग्रहलाघवस्य मल्लारिविवृतौ। युतिपर्याया:-युतिः, युद्धम्।
(१) अत्र रविग्रहेऽर्कचन्द्रयोर्याम्योरमन्तरं 'विक्षेपः' 'विक्षेपो नाम कक्षामण्डलविमण्डलयोर्याम्योत्तरमन्तरं स्यात्।
(२) मासप्रथमपादे, मासान्तपादे च चन्द्रशृङ्गोन्नतिर्द्रष्टव्या।
(३) सूर्यग्रहयोरन्तरे वर्द्धमाने सति 'ग्रहदर्शनं (ग्रहोदयः), क्षीयमाणे सति ग्रहलोप: (ग्रहास्त:) स्यात्।
(४) भध्रुवकादग्रगे शीघ्रगतिग्रहे याता युतिः। पृष्ठगे शीघ्र गम्या युति: वक्रगतिगृहे सा विलोमा ज्ञेया। ९ ज्यो.वि.शब्दकोष
For Private and Personal Use Only