________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११८
ज्योतिर्विज्ञानशब्दकोषः खग्रासांघ्रिप०-खग्रासांघ्रि: खच्छन्नचरणः, खच्छन्नपाद:, खच्छन्नांघ्रिः, खच्छन्नाशांघ्रिः। प्रसार्यवाचकाव्ययशब्दौ-प्रसार्य्य (अ), विगणय्य (अ०), (गणना करे इति भाषा)। 'सव्यप०-सव्यम्, वामभागः। अपसव्यप०-अपसव्यम्, असव्यम्, दक्षिणभागः।
तदुक्तम्'सव्यासव्यमपागुदग्वलनजाशांघ्रीन् प्रदद्याच्छराशायाः। स्याद् ग्रहमध्यमन्यदिशि खग्रासोऽथ वाशेषकम्। इति ग्रहलाघवे।
चन्द्रग्रहणभङ्गीप०-चन्द्रग्रहणभङ्गी, चन्द्रग्रहणछेद्यकलेखनम्। वर्णप०-वर्णः, शुक्लादिः।
वर्णभेदाः-(१) धूम्रः, (२) कृष्णः, (३) कृष्णरक्तः, (४) पिशङ्गश्चैते चन्द्रग्रहणस्य वर्णाः स्युः। सूर्यस्य सदैव 'कृष्णवर्णः'। अर्कस्तु कृष्णः सदैव इत्युक्तेः।
पर्वेशप०-पर्वनाथः, पर्वस्वामी, पर्वेशः।
पर्वस्वामिनामानि-(१) ब्रह्मा (अन्), (२) शशी (इन्) (३) इन्द्रः, (४) कुबेरः, (५) वरुणः, (६) अग्नि:, (७) यम श्चैते पर्वस्वामिनः स्युः।
विहितप०-ग्रस्तम्, पिहितम्। पिधानप०-अपिधानम्, आच्छनम्, तिरोधानम्, पिधानम्। बिम्बशेषप०-बिम्बशेषम्, मण्डलशेषम्, मण्डलावशेषः।
त्रिभोनलग्नप०-त्रिभहीनम्, त्रिभहीनलग्नम्, त्रिभोनम, त्रिभोनलग्नम्, वित्रिभम, विभिलग्नम्, खदलम्।
'लम्बनप०-लम्बनम्, विलम्बनम्, हरिजम्,। 'नतिप०-अवनति: दृङ्नतिः, नतिः। दृक्क्षेपप०-दृक्क्षेपः, दृष्टिक्षेपः।
(१-२) प्राचीचिन्हतो दक्षिणादिक्रमेणाघ्रीन शराशाया दद्यात्। एवं प्राचीचिन्हत उत्तरादिक्रमेणां घ्रीन् शराशाया दद्यादित्यर्थः।
(३) अस्यां स्पर्श-मीलन मध्योन्मीलन-मुक्तयश्चेत्येतत्सर्वं दुग्गोचरं भवेत्। 'उक्तश्च' अखिलमिदं भङ्गयां भवेद् गोचरम्। इति। (४) दृक्सूत्राच्चन्द्रो यावतान्तरेण लम्बितस्तल्लम्बनम्।
अथवा गर्भीयपृष्ठीययोगयोरन्तरमेव लम्बनम्। (५) दृग्लम्बार्कान्तरजा ज्या छेदाप्ता भवेद्धरिजम्। 'सूर्यसिद्धांते'हरिजज्याभाव उक्त: स यथा-'मध्य १० लग्नस्थिते भानौ हरिजस्य न सम्भवः।' इति (६) दक्षिणोत्तरान्तरं यत्तन्नतिसंज्ञम्। दृक्क्षेपजा वित्रिभनतांशदिक्का नतिः।
For Private and Personal Use Only