________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११५
ग्रहगणितसर्गः गतपर्यायाः-अतीतः, इतः, गतः, प्रगत:, यातः, व्यतीतः। गम्यपर्या०-अगतः, एष्यः, गम्यः, भविता, भाव्यः, येयः। तात्कालिकप०-तत्कालजः, तत्कालभवः, तात्कालिकः, तात्कालीनः। 'पर्वप०-पर्व (अन्), (न०) पूर्णिमाप्रतिपत्सन्धिः , दर्शप्रतिपत्सन्धिः ।
पर्वान्तप०-अमान्तः, कृष्णगम:, कृष्णान्त:, दर्शान्तः, पर्वविरामः, पर्वविरामकाल:, पर्वान्त:, पौर्णमास्यन्त:, शुक्लगमः, सितान्त:, सूर्येन्दुसङ्गमान्तः।
तिथिविरामप०-तिथिविरतिः, तिथिविरामः, तिथ्यन्तः, तिथ्यपाय: स्फुटतिथ्यवसानम्। प्रतिपदन्तप०-प्रतिपदन्तः, प्रतिपद्मः।। विराङ्खर्कप०-विपात:, विपातार्कः, विराह्वर्कः, व्यगुः, व्युगुरविः, व्यग्वर्कः। विराहुचन्द्रप०-विराहुचन्द्रः, व्यगुचन्द्रः, व्यगुविधुः। साग्वर्कप०-साग्वर्कः, साग्विनः। ग्रहणप०-ग्रहः, ग्रहणम्, प्रग्रहः। सम्भवप०-विनिश्चयः, सम्भवः।
शरप०-इषुः, कलम्बः, पृषत्क:, बाणः, शरः, सायक: शेषपर्यायास्तु कामपर्याये द्रष्टव्या:।
स्पष्टशरप०--स्पष्टबाणः, स्पष्टशरः, स्फुटबाणः स्फुटशरः। चन्द्रशरप०-चन्द्रबाणः, चन्द्रविक्षेपः, चन्द्रशरः, विक्षेपः।
__ अत्राह भास्कर:
'विक्षेपइन्दोः स च बाणसंज्ञः' इति शिरोमणौ। बिम्बप०-तनुः (स्त्री०), बिम्ब: (अस्त्री), मण्डलम् (त्रि०), मानम् (न०), वपुः (उस्) (न०)। बिम्बकलाप०-बिम्बकला, बिम्बकलिका, बिम्बलिप्ता, बिम्बलिप्तिका, मण्डललिप्ता।
अंगुलादिप०-अंगुलादि, अगुलमुखम्, अंगुलवदनम्।
भूभाप०-अवनीभा, उर्वीप्रभा, कुभा, क्षितिभा, क्ष्माभा, भूच्छाया, भूभा, भूमिभा, मेदिनीच्छाया, राहुबिम्बम्।
सूर्यग्रहणप०-रविग्रहः, सूर्यग्रहणम्। चन्द्रग्रहणप०-चन्द्रग्रहणम्, विधुग्रहः, विधुपिहितम्।
छाद्यप०-ग्राह्यः, छाद्य:, पिधेयः। "छादकपर्यायाः-ग्राहकः, छादकः, पिधानम्, सञ्छादकः। (१) पर्वशब्दः पूर्णिमाऽमावस्या वाची ज्ञेयः। (३) छादनीयो वा छादितुं योग्यश्छाद्यः। (२) अंगुलाधो 'व्यंगुल' मपि ग्राह्यम्।
(४) छादयति यः सच्छादक:। चन्द्रग्रहणे छादको भूभा। छाद्यश्चन्द्रः। रविग्रहणे छादकश्चन्द्रः, छाद्यो रविः। ग्राह्यग्राहकयोोंगो ग्रहणम्, योगो नामान्तराभावः ग्राह्यग्राहकयोरन्तराभावो ग्रहणम्।
For Private and Personal Use Only