________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११४
ज्योतिर्विज्ञानशब्दकोषः त्रिकाण्डशेषेऽपि पृ०२७२ श्लोक ६४ अथ ताम्री स्यान्मानरन्ध्रा विकालिका।। इति। नलिकापर्यायाः-नल:, नलकसुषिरम्, नलिका, नलिकाबन्धः। छिद्रप०-छिद्रम्, रंन्ध्रम्, सुषिरम्।
इह नलिकाछिद्रतो ग्रहदर्शनहेतुमाह भास्कर:--'दर्शयेद्दिविचरं दिवि के वाऽनेहसि धुचर' दर्शनयोग्य।
पूर्वमेव विरचय्य यथोक्तं रञ्जनाय सुजनस्य नृपस्य।। इति सि०शि०। 'दृग्ग्रहप०-दृक्खगः, दृक्खचरः, दृग्ग्रहः, दृग्धुचरः। दृक्कर्मप०-दृक्कर्म, दृष्टिकर्म। दक्कर्मलवप०-दृक्कर्मलवः, दृष्टिकर्मलवः। प्राग्दृग्ग्रहप०-पूर्वदृग्ग्रहः, प्राग्दृग्ग्रहः। पश्मिदृग्ग्रहप०-पश्चिमदृग्ग्रहः, प्रत्यग्दृग्ग्रहः। 'ताराग्रहकुजलम्वनप०-ताराग्रहकुजलम्बनम्।
ताराभेदाः-(१) प्रजापतिः, (२) मृगव्याध: (व्याध:), (३) ब्रह्महद् (ब्रह्महृदय:), (४) अग्नि: (हुतभुक्) (५) अगस्त्यः , (६) अपांवत्स: (आप:), (७) लुब्धकः (लुब्धः), (८) इन्द्रः (नेप्च्यून:), (९) वरुणः (हर्शल), (१०) अभिजित् (ब्राह्मम्) चैते दशतारा अपि नभसि दृश्यन्ते।
(पृष्ठ ११३ का शेष)
नैमित्तिकलयं प्रपञ्चयिष्यन् निमेषादिक्रमेण प्रथमांशोक्तेमेव कल्पप्रमाणमनुस्मारयति निमेष: इति सप्तभिः। मात्रैव मात्रं प्रमाणं यस्य। एकमात्रलघ्वक्षरोच्चारणकालसम्मितो हि निमेष:निमेषकाल तुल्या हिम मात्रा लध्वक्षरं च यत्।' इति ब्राह्माण्डोक्तेः।।
नाडिकाज्ञानोपायमाहउन्मानेनेति साढेन। अभ्भ स उन्मानेन उन्मीयतेऽनेनेत्युन्मानं पात्रम्। अर्द्धन योगेन त्रयोदश सार्द्धत्रयोदशेत्यर्थः। उन्मानरूपेण घटितानि सार्द्धद्वादशपलानि सा नाडिका। सार्द्धद्वादशपलताम्रनिर्मितपात्रेण सा नाडिका ज्ञातव्येत्यर्थः। किं प्रमाणं तत्पात्रं कार्यं तदाह। ___ 'मागधेन प्रमाणेन जलप्रस्थस्तु संस्मृतः।'
इति सार्द्धद्वादशपल जलेन हि मागधदेशप्रस्थः प्रपूर्यते। तत्प्रमाणं पात्रं कार्यमित्यर्थात्सिद्धम्। ननु तथापि पात्रेण कथं नाडिकाज्ञानं क्रियापरिच्छेद्यत्कात्कालस्येत्याशंक्य क्रियासिद्धयै प्रस्थादि विशिनष्टि। हेमेति। माष: पञ्चगुञ्जः। हेम्नो माषैश्चतुर्भिश्चतुरङ्गुलेन शलाकारूपेण रचितैः कृतच्छिद्रा। एतदुक्तं भवति। सार्द्धद्वादशपलताम्रमयं मागधप्रस्थसम्मितमूयित पात्रं चतुर्माषचतुरंगुलहमशलाकया कृताधश्छिद्रं जले स्थापितं तेन च्छिद्रेण यावता कालेन पूर्यते तावान् कालो नाडिकेति। तथा च शुक:
द्वादशार्द्धपलोन्मानं चतुर्भिश्चतुरंगुलैः। स्वर्णमाषैः कृतच्छिद्रं यावत्प्रस्थजलप्लुतमिति। इति तट्टीकायां श्रीधर स्वामिनः। इति श०चिं० २।८६३। (१) दृक्कर्मदत्तो ग्रह आकाशे दृग्गोचरो भवति। (२) भौमादीनां कुजलम्बनानि (क्षितिजलम्बनानि) नाम स्वस्वोदयास्तकाले लम्बनानि स्युः।
For Private and Personal Use Only