________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११३
ग्रहगणितसर्गः रन्ध्रा, मेरुका, यामघोषिणी, यामनाडी, विकालिका, षष्टिदीर्घाक्षरोच्चारा।
तदुक्तम् केशवे पृ ४०७ श्लो २१,२२ () षष्टिदीर्घाक्षरोच्चारा मेरुका घटिका घटी। नाडी च नाडिकायामनाडी स्याद्यामघोषिणी।। विकालिका मानरन्ध्य ताम्रिकाऽपयथ तद द्वयम्॥ इति।
(पृष्ठ ११२ का शेष) अस्य यन्त्रस्य व्यासोऽर्काङ्गलात्मकः, उन्नतिः षडंगुलप्रमिता विधेया। इह पञ्चभिर्गुञ्जाभिरेको माष:, अस्य चतुः षष्ट्या पलमेकं भवति। सत्र्यंशमाषमात्र १/१/३ स्वर्णस्य चतुरंगुलप्रमिता शला: का कार्या तया तत्पात्रं विद्धं जलघटी भवतीति।
ज्योतिर्विदाभरणेऽपिगुर्वक्षराणामुदितं च षष्ट्या, पलं पलानां घटिका किलेका।' इति।। ग्रन्थान्तरेऽपिशीर्षे प्रसूतेपटिका निधेया कालोऽतिसूक्ष्मः कथितो मुनीन्द्रः। इत्थं घटीयन्त्रविधानमाद्यैरुदीरितं सूक्ष्मफलावबुध्य।। यंत्रर्दिवासाधनमेव कैश्चिनिटसाधनं कैश्चिदिह प्रयुक्तम्। प्रसाध्यते येन दिवानिशांतं मुख्यं घटीयत्रमहं प्रवक्ष्ये।। दशपला तुलयोत्तमशुल्बजा घटदलाकृतिरुच्छ्रयताऽङ्गुलैः। रसमितैर्विसृतार्कमितांगुलैः समघना तु घटी समुदीरिता।। चतुर्भिव्रीहिभिर्गुआ त्रिगुञ्जा वल्ल उच्यते। वल्लैः षोडभिर्गद्यं गद्यैः षोडशभिः पलम्।। तौल्यै तु सार्द्धद्वयमाषहेम्नो दशार्द्धगुञ्ज प्रवदन्ति माषम्। शला विधेया चतुरंगुलाऽऽर्यैस्तलैस्तु घट्या विवरं विधेयम्।। इति।
विष्णुपुराणे तु घटिकाज्ञानोपायो यथानिमेषो मानुषो यो यं मात्रामात्रप्रमाणकः। तैः पञ्चदशभिः काष्ठा त्रिंशत्काष्ठास्तथा कला।। नाडिका तु प्रमाणेन कलादश च पञ्च च। उन्मानेनाम्भसः सा तु पलान्यर्द्धत्रयोदश।। हेममाषैः कृतच्छिद्रा चतुर्भिश्चतुरंगुलैः। मागधेन प्रमाणेन जलप्रस्थस्तु संस्मृतः।। इति
(शेष पृष्ठ ११४ पर)
For Private and Personal Use Only