________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११२
ज्योतिर्विज्ञानशब्दकोषः
तदुक्तम् वृत्ते समभूगते तु केन्द्रस्थितशङ्कोः क्रमशो विंशत्युपैति। छायाग्रमिहापरा च पूर्वा ताभ्यां सिद्धतिमेरुदक् च याम्या।। इति ग्रहलाघवे ।। दिग्वलनप०-दिग्वलनम्, आशावलनम्, ककुबद्वलनम्, काष्ठावलनम्। यंत्रप०-यन्त्रम्, दारूयन्त्रादि, 'कल' इति भाषा।
यंत्रभेदाः-(१) गोल:, (२) नाडीवलयः, (३) यष्टिः, (४) शङ्कः, (नरयन्त्रम्), (५) घटीयन्त्रम्, (६) चक्रम्, (७) चापः, (८) तुर्यम् (तुरीयम्), (६) फलकम्, (१०) धी:, (११) सर्वतोभद्रः (१२) कपालकयन्त्रम्, (१३) नायिकायन्त्रम् चैते यन्त्रभेदाः स्युः।
'घटीयन्त्रपर्यायाः-घटिका, घटी, घटीयन्त्रम्, ताम्रिका, ताम्री, नाडिका, नाडी, मान(१) घटीयन्त्रं अर्थाज्जलघटीस्थापनक्रियामाह नारद:पूर्व सञ्चिन्त्य गणितं शास्त्रोक्तं लग्नमानयेत्। तल्लग्नं जलयंत्रेण दद्याद ज्यौतिषिकोत्तमः।। षडंगुलमितोत्सेधं द्वादशांगुलमायतम्। कुर्यात्कपालवत्ताम्रपात्रं च दशभिः फलैः।। पूर्ण षष्ट्या त्वथ पलैः षष्टिर्मज्जति वासरात्। मासमात्रश्यंश १ १/३ युतस्वर्णवृत्तशलाकया।। चतुर्भिरंगुलैरायतया विद्धमिति स्फुटम्। ताम्रपात्रः जलैः पूर्णे मृत्पात्रे वा ऽथवा शुभे।। गंधपुष्पाक्षतैः सार्द्धरलंकृत्य प्रयत्नतः।। तण्डुलस्थे स्वर्णयुते वस्त्रयुग्मेन वेष्टिते॥ मण्डलाद्धोदयं वीक्ष्य रवेस्तत्र विनिक्षिपेत्। मंत्रेणानेन पूर्वोक्तलक्षणं यंत्रमुत्तमम्॥ इति।
अथवा एकान्तपक्षेऽनिलवर्जितेऽस्मिन् दध्यक्षतैः पूजितमण्डले च। कुण्डेऽम्बुपूणे घटिका प्रवाह्या सूर्याद्धबिम्बे उदितेऽस्तगे वा।।' अत्र मंत्र:'मुख्यं त्वमसि यंत्राणां ब्रह्मणा निर्मितं पुरा। भ (शि) वाभ (शि) वाय मानां कालसाधक कारणम्।। इति
ज्यौतिषकल्पद्रुमे तु यथा'कुम्भार्द्धकृतिशुद्धताम्रदर्शभिः पात्रं पलैर्निर्मितं शंक्कार्नोन्ननिशंकुविस्तृतिरिदं मासाङ्गुलैरायतम्। विद्धा हेमशलाकया सुसलिले उन्मज्य तस्किन् घटी उन्मज्या खलुषष्टिवारपठिते श्लोकेन सा पूर्यते।। इति।
(शेष पृष्ठ ११३ पर)
For Private and Personal Use Only