________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०९
ग्रहगणितसर्गः इष्टघटीप०-अभिमतघटिका, अभिमतघटी, अभिमतनाडिका, अभिमतनाडी, इष्टघटिका, इष्टघटी, इष्टनाडिका, इष्टनाडी, अभीष्टघटी, अभीष्टनाडी।
लग्नप०-उदयः, उद्गमः, लग्नम्, विलग्नम्। शेषपर्यायास्तु तनुभावे द्रष्टव्याः। अस्य सलक्षणपर्यायानाह'सूचीमुखो द्वादशभिस्तथांगुलैरध: पृथुस्तिष्ठति यो महीतले। विना निखातं गजदन्तनिर्मितः कीलः स शंकुर्नर इत्युदीरितः।।
इति ग्रन्थान्तरे। शंकुभेदा:-अभीष्टोन्मण्डलशंकुः, इष्टशंकु:, उन्मण्डलना (उन्मण्डलशंकुः), कोणशंकु:, दिनार्द्धशंकु:, (धुदलशंकु:, मध्याह्रशंकुः), समनर: (समना), समवृत्तशंकुः (सममण्डलशंकु:, समशंकु:)।
अहोरात्रपर्यायाः-अहोरात्रः, अहर्निशम्, दिवारात्रम्, शेषन्त्वन्यत्र। ___ अहोरात्रभेदाः-(१) दिनार्द्धम्, (२) दिनमानम् (३) रात्र्यर्द्धम् (निशीथ:), (४) रात्रिमानं चैतेऽहोरात्रभेदाः स्युः।
कपालभेदौः-(१) पूर्वकपालम् (२) परकपालम्, चैतौ द्वौ कपालभेदौ स्याताम्। 'पूर्वकपालपर्यायौ-पूर्वकपालम्, प्राक्कपालम्।
परकपालप०-अपरकपालम्, परकपालम्, प्रत्यक्कपालम्, परत्रकपालम्। नतकालप०-नतः, नतकालः, नतसमयः। उन्नतकालप० ---उन्नतः, उन्नतकालः, उन्नतसमयः। उक्तं च'यात: शेषः प्राक्परत्रोन्नत: स्यात्कालस्तेनोनं धुखण्डं नत: स्यात्। इतिग्रहलाघवे ।। नतभेदौ-(१) पूर्वनतः, (२) पश्चिमनतश्चैतौ नतस्य द्वौ भेदौ स्तः। पूर्वनतपर्यायौ-पूर्वनतः, प्राङ्नतः। पश्चिमनतप०-पश्चिमनतः, प्रत्यङ्नतः। उन्नतभेदौः-(१) पूर्वोन्नतः, पश्चिमोन्नतश्चैतावुन्नतस्य द्वौ भेदौ स्तः। पूर्वोत्रतपर्यायौः-पूर्वोन्नतः, प्रागुन्नतः। पश्चिमोन्नतप०-पश्चिमोन्नतः, प्रत्यगुन्नतः।
आक्षकालप०-आक्षः, आक्षकालः, आर्भसमयः, औदयिकः, नाक्षत्र:, नाक्षत्रकाल:, नाक्षत्रसमयः, विषुवकालः।
अक्षक्षेत्रप०-अक्षक्षेत्रम्, पलक्षेत्रम्। 'अग्राप०-अग्रा। अप्रापखण्डप०-अग्राग्रखण्डम्, अग्रादिखण्डम्। (१) सूर्योदयाद् दिनार्द्ध पर्यन्तं पूर्वदलम्, प्राक्कपालं स्यात्। (२) मध्याह्नादुपरि सूर्यास्तपर्यन्तं पश्चिमदलं तदपरं पश्चिमकपालम्। (३) ग्रहाणामुन्मण्डलोदयसमये तेषामाक्षकाल: आर्भकालो नाम विषुवकालो ज्ञेयः। (४) क्षितिजे अहोरात्रवृत्तसममण्डलयोर्मध्यभागस्य या ज्या सा 'अग्रा' ज्ञेया।
For Private and Personal Use Only