________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०८
ज्योतिर्विज्ञानशब्दकोषः 'प्रत्यक्कुजप०-अस्तक्षितिजम्, पश्चिमक्षितिजम्, प्रत्यक्षितिजम्, प्रत्यककुजम्। 'निरक्षप०-निरक्षदेशः, पलभाशून्यदेश:, व्यक्षदेशः। साक्षप०-साक्षदेश: पलभासहितदेशः, सपलदेशः । अक्षप०-अक्षः, पलः।
अक्षांशप०-अक्षभागः, अक्षलव:, अक्षांश:, अक्षांशक:, पलभागः, पललव:, पलांश:, पलाशंकः, खमध्यानतांश: (दक्षिण:)।
अंशभेदाः-उन्नतांश:, क्षेत्रांश: (क्रान्तिवृत्तस्थांश:) दिगंशः, नतांश: (क्रान्त्यक्षजसंस्कृतिः), लम्बांश: (क्षितिजादुनतांश: सौम्यः), तूलांश:, यंत्रांश:, यंत्रजोत्रतांश:, अभिमतयंत्रांश:, भुजांश:, कालांश: (क्षणांश:)। लकोदयपर्यायाः-लङ्कोदया:, लङ्कोदयप्राणा:, लंकोदयासवः, निरक्षोदया:, व्यक्षोदयाः ।
तदुक्तम्लंकोदया विघटिका गजभानि गोऽङ्कदस्रास्त्रिपक्षदहना: इति ग्रहलाघवे ४/१।
स्वोदयप०-स्वभोदया:, स्वराश्युदया:, स्वोदया:, स्वोदयप्राणाः, स्वोदयासवः, गृहोदया:, उदयप्राणा:, उदयासव:, भोदया:, राश्युदया:।
तदुक्तम्'क्रमगोत्क्रमस्था:। हीनान्विताश्चरदलैः क्रमगोत्क्रमस्थै । मेषादितो धटतउत्क्रमतस्त्विमे स्युः।। स्वोदयाः' इति शेषः। इति ग्रहलाघवे ४/१।
भुक्तांशप०-इतभागः, इतलवः, इतांश:, इतांशकः, गतभागः, गतलवः, गतांश:, गतांशकः, भुक्तभागः, भुकालव:, भुक्तांश:, भुक्तांशकः, यातभागः, यातलवः, यातांश:, याताशंकः।
भोग्यांशप०-एष्यभागः, एष्यलव:, एष्यांश:, एष्यांशकः, गम्यभागः, गम्यलव:, गम्यांश:, गम्यांशकः, भोग्यभाग:, भोग्यलव:, भोग्यांश:, भोग्यांशकः, येयभागः, येयलव:, येयांशः, येयांशकः।
भुक्तकालप०-इतकालः, गतकालः, भुक्तकालः, यातकालः। भोग्यकालप०-एष्यकाल:, गम्यकालः, भोग्यकालः, येयकाल:। (१) क्षितजवृत्तस्य पश्चिमदिक् प्रदेशः।
(२) चतस्रो नगर्योऽक्षरहितास्ताश्च यथा-कुमध्ये 'लङ्का' इयं भारतवर्षे दक्षिणे वर्तते। अस्याः प्राक् (पूर्व) 'यमकोटि:' सा भद्राश्च वर्षे तिष्ठति। पश्चिमे केतुमालवर्षे रोमक: (रोमकपत्तनम)। ततोऽधः सिद्धपुरम् (सिद्धपुरी)। अस्याः सौम्ये (उत्तरे) कुरुवर्षे सुमेरुः, तत्र सुरसिद्धसंघा वसन्ति। तस्या याम्ये वडवानलः, तत्र औवें सदैत्या: सर्वे नरका: सन्ति। लङ्कापुरेऽर्कस्य यदोदयस्तदा यमकोटिपुर्यां दिनार्द्धम्। सिद्धपुरेऽस्तकालोऽध:। तदा रोमके रात्रिदलम्। उक्ताश्चत्तस्रो नगयों भूवृत्तपादविवरा अन्योन्यं प्रतिष्ठिताः। तासामुपरितो विषुवस्थो दिवाकरो याति। तासु विषुवच्छाया ध्रुवस्योन्नतिश्च न दृश्यते। तत्र दिवामानं रात्रिमानं च त्रिशन्नाडिकाः, इति सूर्यसिद्धांतमतम्। इति राजा राधाकांतशब्दकल्पद्रुमे। इ० शर्चि०।
For Private and Personal Use Only