SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०४ ज्योतिर्विज्ञानशब्दकोषः ___ ज्याभेदाः-(१) अक्षज्या, (२) अग्रज्या, (३) अर्द्धज्या, (४) इष्टत्रिज्या:, (५) उत्क्रमज्या, (६) कुगुणा, (कुजीवा, कुज्या, क्षितिज्या) (७) कोटिगुणा, (कोटिजीवा, कोटिज्या, लम्बज्या), (८) क्रमज्या, (९) क्रान्तिज्या (अपमज्या), (१०) चरज्या (चरदलज्या), (११) जिनांशजीवा, (१२) त्रिगुणा (त्रिजीवा, त्रिज्या, त्रिभज्या), (१३) दिग्ज्या, (१४) दृग्ज्या, (१५) धुजीवा (धुज्या', घुमौर्वी), (१६) नतज्या, (१७) परमक्रान्तिज्या (परमापमज्या), (१८) भुजज्या (दोा, बाहुज्या), (१९) लम्बज्या चैते ज्याया भेदाः स्युः। धनुः पर्यायाः- अस्त्रम्, आयुधाग्र्यम्, आसः, इष्वासः, काण्डम्, कार्मुकम्, कोदण्डम, गुणी, चापः, तारकम्, तृणता, त्रिणता, द्रुणम्, धनु (न०), धनुः (पुं० स्त्री०), धनुः (उस्) (अस्त्री), धनू: (स्त्री०) धन्वम्, धन्व (अन्), शरारोप:, शरावापः, शरासनम्, शेष:, सरासनम्, स्थावरम्। करणग्रन्थेष्वङ्कभेदौ-(१) मन्दांकः, (२) चलांकश्चैतावंकानां द्वौ भेदौ स्तः। मन्दाङ्कपर्यायाः-मन्दांकः, मान्दः, मृद्वंकः। शीघ्राङ्कप०३-चञ्चलांकः, चलः, चलांकः, शैघ्रः, शीघ्रांकः। मन्दफलप०-मन्दफलम्, मन्दसंज्ञफलम्, मान्दम्, मृदुफलम्, मृदुसज्ञफलम्। शीघ्रफलप०-आशुफलम्, चञ्चलफलम्, चलफलम्, द्राक्फलम्, शीघ्रफलम्, शैघ्यम्। स्पष्टपर्यायौ-स्पष्टम्, स्फुटम्।। मन्दस्पष्टरविप०-मन्दस्पष्टरविः, मन्दस्पष्टार्कः, मृदुस्फुटरविः, मृदुस्फुटार्कः। तदुक्तम्'मृदुसज्ञफलेन मध्यमस्तरणि: संस्करणीय उक्तवत्। स्फुटतामुपयाति मध्यमस्तरणिर्मन्दफलेन केवलम्।। इति केतकीग्रहणगणिते। (१) धुज्यानाम क्रांतिकोटिज्या। (२) लम्बज्या नाम अक्षकोटिज्या। इति ज्योतिर्विदां परिभाषा सुप्रसिद्धा। (३) भौमादीनां प्रथमद्वितीयशीघ्रफलयोः साधने यदा गताङ्कस्यापेक्षया भोग्याङ्कोऽधिकस्तदा तदंतर चयः। यदा गताङ्कस्यापेक्षया भोग्याङ्कोऽल्पस्तदा तदंतरं क्षयः। चयक्षयाभ्यामन्तराभ्यां शेषांशादिकं गुणितं पञ्चदशविभक्तं तदा यत्फलं लभ्यते तदा चयेऽन्तरे तद्भोग्यांके योज्यं क्षयेऽन्तरे तु भोग्यांके वियोज्यं ततो दशभक्तमंशादिकं शीघ्रफलं स्यात्। प्रथमशीघ्रकलार्द्ध द्वितीयशीघ्रफलम् सर्वं मध्यमग्रहे मेषादौ शीघ्रकेन्द्रे तद् धनं तुलादौ तु ऋणं कार्यम्। For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy