________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्रहगणितसर्गः
१०३ 'मन्दकर्णप०-मन्दकर्णः, मन्दश्रुतिः, मृदुकर्णः, मृदुश्रुतिः, मृदुश्रवः (अस्) (न०)। मध्यममन्दकर्णप०-मध्यममन्दकर्ण: मध्यममृदकर्णः।। स्पष्टमन्दकर्णप०-स्पष्टमन्दकर्णः, स्पष्टमृदुकर्णः, स्फुटमन्दकर्णः, स्फुटमृदुकर्णः। 'शीघ्रकर्णप०-आशुकर्णः, चलकर्णः, द्राक्कर्णः, द्राक्श्रुति:, शीघ्रकर्णः।
स्पष्टशीघ्रकर्णप०–स्पष्टचलकर्णः, स्पष्टद्राक्कर्णः, स्पष्टशीघ्रकर्णः, स्पष्टाशुकर्णः, स्फुटचलकर्णः, स्फुटद्राक्श्रुतिः, स्फुटशीघ्रकर्णः, स्फुटाशुकर्णः।
कर्णान्यभेदाः-(१) अक्षकर्णः (पलकर्णः), (२) अभिमतकर्णः (इष्टकर्णः), (३) उवृत्तकर्णः, (४) उन्मण्डलकर्णः, (५) कलाकर्ण: (लिप्ताश्रुतिः) (६) छायाकर्ण: (भाकर्णः), (७) धुदलकर्णः (मध्याह्नकर्णः), (८) मध्यकर्णः, (९) योजनकर्णः, (१०) विषुवत्कर्णः, (११) समकर्णः, (१२) सममण्डलकर्ण: (समवृत्तकर्णः) चैते कर्णस्यान्ये भेदाः स्युः।
परिधिभेदौ-(१) मन्दपरिधिः, (२) शीघ्रपरिधिश्चैतौ द्वौ परिधिभेदौ स्तः। विभापर्यायाः-कोटिः, कोटी, विभा। कोटिप० --कोटिः, कोटी, बाहुहीनत्रिभम्, भुजोनत्रिभम्।
तदुक्तम्दिक्सूत्रसम्पातगतस्य शंकोश्छायाग्रपूर्वापरसूत्रमध्यम्। दोर्दो: प्रभावर्गवियोगमूलं ‘कोटि'नरांत्यागपरा तत: स्यात्।।
इति सिद्धान्तशिरोमणौ। कोट्यंशप०-कोटिभागः, कोटिलयः, कोट्यंशः, कोट्यंशकः। रविमन्दकर्णप० -रविमन्दकर्णः, रविमृदुश्रवः, रविमृदुश्रुतिः। चन्द्रमन्दकर्णप०५-चन्द्रमन्दकर्णः, चन्द्रमृदुश्रवः, चन्द्रमृदुश्रुतिः।
ज्यापर्यायाः-गव्या, गुणः, गुणा, जीवा, ज्यका, ज्या, द्रुणा, धनुर्गुणः, पतञ्चिका, पतञ्जिका, प्रतिकाय:, प्रत्यञ्चा, बाणासनम्,मारवम्, मौर्विका, मौर्वी, व्यधः, शिञ्जा, शिञ्जिनी, शिळ्या, सिञ्जा, सिञ्जिनी।
ज्याद्धप०–जीवाखण्डम्, जीवादलम्, जीवार्द्धम्, ज्याखण्डम्, ज्यादलम्, ज्यार्द्धम्, ज्याशकलम् मौर्वीदलम्।
(१) ग्रहसूर्ययोरन्तरं मन्दकर्णः। (२) भूमिग्रहयोरंतरं शीघ्रकर्णः। अथवाभूमिमध्याद् ग्रहावधिर्यदन्तरं स एव शीघ्रकों ज्ञेयः। (३) राशिचक्रतृतीयांश: कोटिः। अथवाविमण्डलापमण्डलान्तरं कोटि: सा विक्षेपतुल्या भवति। (४) पृथिवीसूर्ययोरंतरम् ‘सूर्यमन्दकर्णः'।
(५) भूमीन्द्वोरंतरं चंद्रमन्दकर्णः। ८ ज्यो.वि.शब्दकोष
For Private and Personal Use Only