________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्रहगणितसर्गः
१०५ मन्दस्पष्टग्रहप०१-मन्दस्पष्टग्रहः, मन्दस्फुटग्रहः, मृदुस्पष्टग्रह:, मृदुस्फुटग्रहः। अयनप०-अयनम्, चलम्, चलनम्।
अयनांशप०२-अयनभागः, अयनलव:, अयनांश:, अयनांशकः, चलभागः, चललव:, चलांशः, अयनचलनभागः, अयनचलनः, अयनचलनलव:, अयनचलनांश:, अयनचलनांशकः।
सम्पातार्कप०--सम्पातार्कः, सायनार्कः। छायाप०-आभा, छाया, दीप्तिः, द्युतिः, प्रभा, भा, विभा।
पलभाप०३-अक्षः, अक्षच्छाया, अक्षप्रभा, अक्षभा, अक्षाभा, पलच्छाया, पलप्रभा, पलभा, पलविभा, पलाभा, विषुवच्छाया, विषुवत्प्रभा, विषुवद्भा, विषुवती, विषुवतीच्छाया, वैषुवती, शंकुतलगतच्छाया।
चरप०-चरम्। चरखण्डप०५-चरखण्डम्, चरखण्डकम्, चरदलम्, चरभित्तम्, चरशकलम्, चरार्द्धम्। स्पष्टरविप०-स्पष्ट रवि:, स्पष्टार्कः, स्फुटरवि:, स्फुटार्कः। स्पष्टग्रहप०६-स्पष्टखगः, स्पष्टग्रहः, स्फुटखगः, स्फुटग्रहः। रविमन्दकेन्द्रपर्यायाः-रविमन्दकेन्द्रम्, रविमृदुकेन्द्रम्, सूर्यमन्दकेन्द्रम्, सूर्यमृदुकेन्द्रम्। रविमन्दफलप०-रविमन्दफलम्, रविमृदुफलम्, घुमणिमन्दफलम्। स्वर्णताप०-धनर्णता, धनर्णत्वम्, धनाधनम्, स्वक्षयत्वम्, स्वर्णता, स्वास्वता।
तदुक्तम्'केन्द्र स्यात्स्वमृणं फलं क्रियतुलाद्ये' इति।
अपि च'गतौ धनर्णं केन्द्रे कुलीरमृगषट्कगते' इति च ग्रहलाघवे २/२।
चन्द्रकेन्द्रभेदाः-(१) च्युतिकेन्द्रम् (२) तिथिकेन्द्रम् (३) मन्दकेन्द्रम्, (४) राहुकला, चैते चन्द्रकेन्द्रभेदाः स्युः।
(१) मंदस्पष्टग्रहोविक्षेपवृत्ते अर्थात् स्वकक्षायां तिष्ठति। (२) वेदाब्ध्यब्यून: खरसहतः शकोऽयनांशाः। इति ग्रहलाद्यवे २।
(३) एवं विषुवतिच्छाया स्वदेशे या दिनार्द्धजा दक्षिणोत्तररेखायां सा तत्र विषुवत्प्रभा। 'इति सूर्यासिद्धांते ३/१२।' 'ग्रंथांतरे तु'
चन्द्राश्विनिघ्ना पलभार्द्धिता च लङ्कावधिः स्यादिह दक्षिणोऽक्ष:।' इति।
(४) लङ्काकोंदयरेखाकोंदययोरंतरं चरं स्यात्। उन्मण्डलक्षितिजयोर्यदंतरं तच्चरं वा। स्वदेशनिरक्षदेशयोः सूर्योदयकालयोरंतरं चरसमानम्। स्वस्वदेशे क्षितिजे रव्युदयात्तद्देशीयाकोंदयांतरं चरखण्डसमानम् इति। अथवा
'क्रान्त्यक्षभागाहतिपञ्चमांशश्चरं पलात्मकं गगना चराणाम्।' इति ग्रंथांतरे। (५) 'त्रिष्ठा हता स्युर्दशभिर्भुजङ्गर्दिग्भिश्चरार्द्धानि गुणोद्धृतांत्या।' इति ग्र०ला०२/२१ (६) स्पष्टग्रहः क्रांतिवृत्ते तिष्ठति तेन क्रांतिवृत्तीयो ग्रहो भवति।
For Private and Personal Use Only