________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०१
ग्रहगणितसर्गः मन्दपर्यायाः-मन्दम्, मृदुः।
शीघ्रप०-अरम्, अविलम्बितम्, आशु, क्षिप्रम्, चञ्चलम्, चपलम्, चलम्, तूर्णम्, त्वरितम्, द्रुतम्, लघु, शीध्रम्, सत्वरम्।
शीघ्रवाचकाव्ययशब्दाः-अञ्जसा, अरम्, अह्राय, आशु, झटिति, द्राक्, मंक्षु, सपदि, साक्।
वेगपर्यायाः-जव:, तरः (अस्) (न०), प्रसरः, रय:, रंह: (अस्) (न०), वाज:, वेगः, स्यदः।
उच्चपर्यायाः-उच्चम्, उच्छ्रितम्, उदग्रम्, उद्धरम्, उन्नतम्, तुङ्गम्, प्रांशु। केन्द्रम् =- केन्द्रम्, ग्रहोच्चान्तरम्, वृत्तमध्यम्। तदुक्तम् :वृत्तस्य मध्यं किल केन्द्रमुक्तं केन्द्रं ग्रहोच्चान्तरमुच्यतेऽतः। यतोऽन्तरे तावति तुङ्गदेशान्नीचोच्चवृत्तस्य सदैव केन्द्रम्।।, इति सिद्धान्तशिरोमणौ। केन्द्रांशप-केन्द्रभाग: केन्द्रलव:, केन्द्रांश:, केन्द्रांशकः। केन्द्रभेदौ-(१) मन्दकेन्द्रम्, (२) शीघ्रकेन्द्रम्, चैतौ केन्द्रस्य द्वौ भेदौ स्याताम्।
केन्द्रान्यभेदाः-(१) आकर्षणकेन्द्रम्, (२) च्युतिकेन्द्रम्, (३) तिथिकेन्द्रम्, चैते केन्द्रस्यान्ये भेदाः स्युः।
मन्दकेन्द्रपर्यायौ-मन्दकेन्द्रम्, मृदुकेन्द्रम्।
शीघ्रकेन्द्र पर्यायाः-आशुकेन्द्रम्, ग्रहोनचलोच्चम्, चञ्चलकेन्द्रम्, चलकेन्द्रम्, तूर्णकेन्द्रम्, द्रुतकेन्द्रम्, द्राक्केन्द्रम्, द्वाक्केन्द्रकम्, शीघ्रकेन्द्रम्। उच्चभेदौ-(१) मन्दोच्चम् (२) शीघ्रोच्चम्, चैतो द्वौ उच्चभेदौ स्याताम्।
मन्दोच्चपर्यायाः-मन्दतुङ्गम्, मन्दोच्चम्, मृदुतुङ्गम्, मृदूच्चम्। (१) ग्रहोच्चान्तरम्, गोलमध्यस्थानम्, वृत्तमध्यम्, वृत्तक्षेत्रमध्यस्थलं वा। (२) सिद्धांतशिरोमणौ केतकीग्रहणिते च मन्दोच्चोनग्रहो मन्दकेन्द्रं भवति। सूर्यसिद्धांते ग्रहलाघवे च ग्रहोनमन्दोच्चं मन्दकेन्द्रं भवति।
(३) केतकीग्रहगणिते मन्दस्फुटाकोंनमन्दस्पष्टग्रह: शीघ्रकेन्द्रं भवति। सूर्यसिद्धांते सिद्धांतशिरोमणौ च ग्रहोनशीघ्रोच्चं शीघ्रकेन्द्रं भवति। ग्रहलाघवे तु मध्यमभौमार्कीज्यविहीनमध्यमार्कस्तेषां शीघ्रकेन्द्रं भवति।
(४) केतकीयग्रहगणिते ग्रहाणां राश्यादयो मन्दोच्चाः। ग्र० रविः भौमः बुधः गुरः शुक्र: शनि: रा० २ ४७ ५९ ८ अं० १८ ११ २३ २०१७ ८ क० ४१ ४१ २६ १३ ४० २७ वि० ० ० ०
०
(शेष पृष्ठ १०२ पर देखें)
ग.
For Private and Personal Use Only