________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणनाादिसर्गः चतुःपञ्चा: (त्रि०) (चत्वारो वा पञ्च वा)। पञ्चषा: (त्रि०) (पञ्च वा षड्वा) परिमाणं येषां तेषु बहुवचनान्तोऽयम् (पाँच या छः इति भाषा)।। षट्सप्ताः (त्रि०) (षट्वा सप्त वा)।
सप्ताष्टा: (त्रि०) (सप्त वा अष्ट वा)। एवमग्रे। द्विकृत्व: (अ.०) (द्विवारम्)।। त्रिकृतव: (अ०) (त्रिवारम्)। चतु:कृत्वः (अ०) (चतुर्वारम्), एवमग्रेऽपि।। __'सर्वपर्याया:-अखण्डः, अखिलः, अनून:, अनूनकः, अन्यूनः, अशेषः, कृत्स्न:, नि:शेषः, निखिलः, न्यक्ष:, पूर्णः, विश्वः, सकल:, समः, समग्रः, समस्तः, सर्वश्चैते वाच्य(त्रि०) लिङ्गा:स्युः।। ____ २ पादोनप० -त्र्यंघ्यूनः, चरणोन:, त्रिचरण:, त्रिपद: त्रिपाद:, त्र्यंघ्रिः, पदोनः, पादोन:, विचरणः, विपदः, विपादः, व्यंघ्रिश्चैते त्रिलिङ्गाः स्युः।
अर्धप०-अर्ध: (त्रि०), खण्ड: (पुं०न०), खण्डलम् (न०), दलम् (न०) नेम: (पुं०), भित्तम् (न०), शकलम् (पुं०न०), शल्कम् (न०)।
'दलितप०-अर्धितः, खण्डितः, दलितश्चैते त्रिलिङ्गाः। 'सार्द्धप०.-सखण्डः, सखण्डलम्, सदलम्, सनेमः, सभित्तम्, सशकलम्, सार्द्धम्। 'साद्वप०-सचरणः, सपदः, सपादः, सांघ्रिः।
चतुर्थांशप०-अंघ्रिः, अर्धार्थः, चतुर्थभागः, चतुर्थाशः, चरणः, तुरीय: तुरीयकः, पदः, पादः।
'अंशप०-अंश:, भागः, वण्टः, वण्टकः। संख्यानाम्नां विषये विशेषसूचना
विविधग्रन्थेषु गुणाः, अग्नयश्च त्रयः। समुद्राश्चत्वारः। वायवः पञ्च। कालाः, रसाश्च षट्। द्वीपा: सप्त। विश्वेदेवा एकादश। भुवनानि चतुर्दश।। कलाः, नृपाश्च षोडश। मेघा: सप्तदश। धान्यानि अष्टादश। शेषसंख्या: समानाः।
अङ्कन्यासवाचकशब्दाः-अङ्कनिवेशनम्, अङ्कन्यासः, अङ्कस्थापनम्। अङ्कन्यासविधिप०-अङ्कन्यासक्रमः, अङ्कन्यासनियम:, अङ्कन्यासविधिः। अत्र गणितविदां सम्प्रदायागतपरिभाषाअङ्कानां वामतो गतिः।, इति। अङ्कानां स्थापनं सव्य--(वाम) क्रमेण कर्तव्यमित्यर्थः।
अत्रोदाहरणं प्रदर्शयतिआकाशपक्षक्षितिसम्मिता: समा: पूर्णायुरुक्तं मनुजस्य हस्तिनः। इतिग्रं० का०1
आकाश: शून्यम्, पक्षौ द्वौ, क्षिति: एका, चैतेषामङ्कानां सव्य-(वाम) क्रमेण स्थापनमित्यम् -१२०अर्थाद् विशत्युत्तरशतं समानां मनुजस्य नरस्य हस्तिनश्च पूर्णायु: परमायुरुक्तं कथितम्। एवं सर्वत्र बोध्यम्।
१. सब, सारा। २. तीन पाद, (पौन, पौणा), ३. आधा, दोपाद। ४. आधा किया हुआ। ५. अर्धयुक्त (ड्योढ़ा) एक ६. चतुर्थांश युक्त (सवैया) एक ७. चौथा भाग (पौवा)। ८. बाँट (हिस्सा)।
For Private and Personal Use Only