________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिर्विज्ञानशब्दकोषः __ 'संङ्कलनवाचकशब्दाः-संयोगः, संगूढः, मेलः, योगश्चैते पुंसि। युति:स्त्रियाम्। ऐक्यम्, मिलनम्, मिलितम्, मेलनम्, मेलितम्, योजनम्, योजितम्, संयोजनम्, संयोजितम्, सङ्कलनम्, सङ्कलितं चैते क्लीबे, अन्वितः, आढ्य:, उपाहितः, प्रयुक्तः, प्रयुतः, प्रयोज्य:, युक्तः, युक्, युज्य:, युतः, योज्य:, संयुक्तः, संयुक्, संयुत:, संयोज्य:, समन्वितः, समाढ्यः, समेत:, सहितश्चैते त्रिषु।
योगफलप०–योगफलम् (न०), सङ्कलित:, (त्रि०) सङ्कलनप्रकारमाह भास्कर:कार्य: क्रमादुत्क्रमतोऽथवाङ्कयोगो यथास्थानकमन्तरं वा।' इति ली.व.।
व्यवकलनवाचकशब्दाः-वियोग: (पु०), वियुति: (स्त्री०), परिशोधनम्, परिशोधितम्, वर्जनम्, वर्जितम्, वियोजनम्, वियोजितम्, विवर्जनम्, विवर्जितम्, विश्लेषितम्, विश्लेष्यम्, व्यवकलनम्, व्यवकलितम्, संशोधनम्, संशोधितम् चैते क्लीबे। अपास्यः, ऊनः, ऊनित:, न्यूनः, पतितः, परिशोधितः, परिशोध्यः, रहितः, वियुक्तः, वियुक्, वियुतः, वियोज्य:, विरहित:, विवर्यः, विशोधितः, विशोध्यः, विहीन:, शुद्धः, शोधित:, शोध्यः, संविहीनः, संशुद्धः, संशोध्य-श्चैते त्रिषु।
"वियोगफलप०-वियोगफलम् (न०), व्यकलित: (त्रि०)। अत्र व्यवकलनप्रकारमाह भास्कर:कार्यः क्रमादुत्क्रमतोऽथवाङ्कयोगो यथास्थानकमन्तरं वा।' इति ली०व०।
"गुणनवाचकशब्दाः-घात: वधश्चैतौ पुंसि। निघ्नी, विनिघ्नी, हतिश्चैते स्त्रियाम्। गुणनम्, ताडनम्, ताडितम्, निहननम्, पिण्डनम्, विवर्द्धनम्, संगुणनम्, सन्ताडनम्, संवर्द्धनम्, हननं चैते क्लीबे। अभिहतः, अभ्यस्तः, आहतः, उपाहतः, क्षुण्णः, गुणः, गुणित:, गुण्यः, निहतः, पिण्डित:, पूरित:, प्रणिघ्नः, विगुणित:, विनिघ्नः, विनिहतः, विवर्द्धितः, संवर्द्धित:, संगुणितः, संताडित:, सुताडितः, सम्पिण्डित: हतश्चैते त्रिषु।
'गुणनफलप०-गुणनफलम् (न.), गुणित: (त्रि)। अत्र गुणनप्रकारमाह भास्कर:गुण्यान्त्यमकं गुणकेन हन्यादुत्सारितेनैव पुनश्च राशिम् इति ली. व.।
"भजनवाचकशब्दाः-भागः, विभाग-श्चैतौ पुंसि। भजनम्, विभाजनम्, हरणं चैते क्लीबे। अपनीतः, अपहतः, उद्धृतः, परिभाजित:, परिहत्, परिहतः, भक्तः, भाजितम्, विभक्तः, विभाजित:, विभाज्य: विहत्, विहतः, संविहतः, समुद्धृतः, हार्य्य:, हत्, हतश्चैते त्रिषु।
भजनफलप०-भजनफलम् (न०), विभाजित: (त्रि)।
१. जोड़ना २. जोड़, जोड़किया हुआ, ३. घटाना ४. अन्तर, घटाया हुआ ५. गुणना ६. गुणितसंख्या, गुणा हुआ। ७. भाग देना ८. मिला, मिला हुआ।
For Private and Personal Use Only