________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धति साधुमुद्दिश्याश्रित्य भणितमुक्तं निशीथग्रन्थे प्रकल्पशास्त्रे, किंविशिष्टे ? उत्सर्गापवाद जलधौ-सामान्यविशेषनीरधौ इति गाथार्थः ॥
तदेवाह
संविगमसंविग्गे पच्छाकडसिद्धपुत्तसारूवी । __पडिकते अब्भुहिए असई अन्नत्थ तत्थेव ॥ ६९ ॥
सुगमा । भावार्थरतु कथ्यते प्रथम संविग्नस्योद्यतस्य सूत्रार्थनिपुणस्य समीपे साधुभिः श्रोतव्यं, तदभावेऽसंविग्नस्यापि गीतार्थस्य, तस्याप्यभावे पश्चात्कृतस्यामुक्तलिङ्गस्य, स च द्विरूपो भवति-एकः सिद्धपुत्रोऽन्यश्च सारूपी । अनयोश्च स्वरूपमाभ्यामुक्ताभ्यामवगन्तव्यम् ।।
" सभजओ वावि अमजओ वा नियमेण दोसुक्किलवत्थधारी ।
खुरेण मुंडो असिही सिही वा अदंडपत्तो विय सिद्धपुत्तो॥ मुंड सिरो दोसुकिलवत्थधरो न विय बंधए कच्छं । हिंडइ नवा अभज्जो साख्वी एरिसो होइ ॥"
एतयोश्च देशनां कृत्वाऽभ्युद्यमं कायौं, यदि कुरूतस्ततो लष्टं, न चेत्, ततोन्यत्र नीयेते, यदि च गच्छतः ततस्तत्रैव सिद्धान्तोक्तविधिना तत्समीपे पठितव्यम् , पठद्भिश्च यदि निवार्हो न भवति तयोस्ततः स्वयं सर्च करणीयं, श्रावकाच कारयितव्याः। तथा च तत्रैव निशीथे भणितं
"चोयइ से परिवारं अकरिते वा भणाइ तो सड़े।
अव्वोच्छित्तिकरस्स उ सुयभत्तीए कुणह पूयं ॥"
तथा उपदेशमालायां सुग्गइमग्गपइवं-" इत्यादि, अकरणे च प्रायश्चित्तं भणितमिति भावार्थ इति गाथार्थः ॥
एवं स्थिते जीवोपदेशमाह
ता सिद्धिमयरसम्मग्गपयडणे नाणमणिपईवम्मि कुणसु एयत्तं रे जीव! मच्छरं चइय सव्वत्थ ॥ ७० ॥
व्याख्या--तस्मात्सिद्धिनगरसन्मार्गप्रकटने-मोक्षपुरपदवीप्रकाशके ज्ञानं श्रुतज्ञानं तदेव वाताद्यक्षोभ्यत्वेन प्रकाशकत्वेन च मणिप्रदीपः तस्मिन् कुरू
For Private And Personal Use Only