________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विधेहि प्रयत्नमादरं रे जीव ! भो आत्मन् मत्सरं रोषं त्यक्त्वा प्रोज्झ्य सर्वत्र पार्श्वस्थादिसमीपे। किश्च श्रावकान् पार्श्वस्थादिसमीपे शृण्वतो वारयन्ति, स्वयं च पूर्वोक्तयुक्त्या निष्कारणं नित्यं श्रावकधर्मकथनेन पार्थस्था भवन्तोऽपीत्थं जल्पन्ति,अहो मोहविलसिमिति अवस्थितोऽयमस्मदुक्तो जीवोपदेश इति गाथार्थः।। पार्श्वस्थादिसमीपश्रवणादिविचारवर्णनोऽयमेकादशोऽधिकारः ।। इदानीं द्वदाशो वर्ण्यते
अइगरुयमच्छरेणं निववसओ करिय केई चेइहरं । विहिचेइयंति पभणंति माणिणो अविहिकरणेवि ।। ७१ ॥
व्याख्या-अतिगुरुकमत्सरेण-वृहत्तरकालुष्येण अनुस्वारोऽत्र पूर्ववत्, नृपवशतश्च नरेशवलेन कृत्वा विधाय केप्येके चैत्यगृहं देवसदनं विधिचैत्यमागमोक्तमित्येवं प्रभणन्ति प्रजल्पन्ति मानिनोऽहङ्कारिणः, अविधिकरणेपि-आगमोत्तीर्णविधानेऽपि । नहि मत्सरतो नृपवशतश्च चैत्यविधानमागमे भणितमिति गाथार्थः।
एतच्च सङ्गतमसङ्गतं वा ? इत्यत्राह
धम्मुज्जयाण नो देइ तंपि मणयंपि म.णसुल्लासं ।
रागद्दोसविहाडणपडुओ जम्हा विही भणिओ ॥ ७२ ॥
व्याख्या-धर्मोद्यतानां वृषोत्साहवतां नो नैव ददाति प्रयच्छति तदपि एवं चैत्यकरणमपि मनागपि स्तोकमपि न केवलं प्रभूतमित्यपेरर्थः, मानसोल्लासं चित्तोत्साहं, तस्माद्रागद्वेषविघटनपटुकः स्नेहरागविनाशदक्षो यस्मा द्विधिश्चत्यमन्दिरकरणं, दीर्घत्वं चात्रपूर्ववत् भणितः प्रतिपादित आगमे इति गाथार्थः ॥
व्यतिरेकमाह
जत्थ पुण रायरोसाण पगरिसो तत्थ धम्मधणनासो।
'विहि विहि' पभणंताणवि जं सुत्ते भणियमेवंति ॥७३॥
व्याख्या-यत्र पुनारागद्वेषयोरुक्तलक्षणयोः प्रकर्षः प्रागल्भ्यं तत्र धम्मधननाशो वृषद्रव्याभावः, 'विधि विधि' प्रभणतामपि । अयमाशयः-विधौ
For Private And Personal Use Only