________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ३४ ) स्तीर्थकराः, शाश्वतप्रतिमानुकार्यष्टमहापातिहार्यसर्वज्ञप्रतिमाकरणे तु विप्रतिपत्ति व नास्त्यतो न तत्करणं प्रति विचार इति गाथार्थः ॥
एवं स्थिते जीवोपदेशमाह-- मइमोहं तो मा कुणसु जीव वंदसु जिणिदपडिमाओ ।
जह तह पइट्टियाओ इच्छंतो सासयं सोक्खं ॥५१॥ प्रकटार्था । नवरं शाश्वतसौख्यं निर्वाणसातमिति गाथार्थः ।। चतुर्विंशतिपट्टकादिविचार णाष्टमोधिकारः समाप्तः ।। इदानीं नवमः प्रारभ्यते ।
सव्वंपि अणुहाणं अविहिकयं केइ पडिनिसेहंति ।
अस्सुयसुयपरमत्था जम्हा एवं परूविंति ॥ ५२॥ व्याख्या-सर्वमपि समस्तमपि न केवलमेकमित्यपिशब्दार्थः । अनुष्ठानं प्रत्युपेक्षणादि साध्वपेक्षया, श्रावकापेक्षया च देवभवनकरणादिकं, अविधिकृतं-अयथोक्तं किश्चिदविसंवादरूपं केऽपि स्तोकाः प्रतिनिषधयन्ति निवारयन्ति । हेतुद्वारेण विशेषणमाह-अश्रुतश्रुतपरमाथों-अनाकर्णितसिद्धान्तरहस्याः । ननु किमत्रासङ्गतं ? अत आह-यस्मादेवं वक्ष्यमाणन्यायेन प्रभवोऽस्मत्पूज्या ब्रुवते प्रतिपादयन्ताति गाथार्थः ॥
तदेवाह गाथाद्वयेन--
अविहिकया वरमकय अस्सुइवयणं भणंति समयन्नू । अविहिकए पच्छित्तं थावं अकए बहु होइ ॥ ६१ ॥ अकुणताउ कुणतो अविहीइवि होइ निजराभागी । कित्तिमेत्ता सत्ता जं विहिविनायगा लोए ॥ ६२ ॥
व्याख्या-'अविधिकृताद्वरमकृतं-अयथोक्तविहितात्पशस्तमननुष्ठितं' अश्रुतिवचनमनागमिकप्रतिपादकं, असूयावाक्यं वा अक्षमाभणिति भणन्ति समयविदः सिद्धान्तज्ञाः। किमिति ? यतः अविधिकृते प्रायश्चित्तं अपराधलक्षणं स्तोकं तुच्छं, अकृते अननुष्ठिते बहु प्रभूतं भवति प्रायश्चित्तमिति ॥ अत्र हि त्रयं
For Private And Personal Use Only