________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ३३ ) यत एवं, अत उक्तिमत्युक्तिगाथामाह
तो गज्जइ चउवीसट्टयाइकरणं अह विभिन्नकरणेवि ।
सहलं हविज्ज सचं वित्ताइअभावकरणेवं ॥ ४९ ॥ व्याख्या--तस्मात् ज्ञायते बुध्यते चतुर्विंशतिपट्टकादिकरणं विधानम् । आदिशब्दाच्छेषप्रतिष्ठाग्रहः, तिकारवकारावत्र प्राकृतलक्षणेन लुप्तौ, अथेति पराभिप्रायदर्शकः, तच्चतुर्विंशतिपट्टकादिकरणं विभिन्नकरणेपि पृथग्निष्पादनेऽपि न केवलमेकत्र विधाने इत्यपिशब्दार्थः; सफलं चरितार्थ भवेत् सत्यमवितथं, किन्तु वित्तायभावाद् द्रव्यापरिपूर्तेः, आदिशब्दात्कस्यचिदवं समाधानादिपरिग्रहः, करणं विधानमेवमुक्तप्रकारेण, अनुस्वारश्चात्र लुप्तो दृश्यः । पूवोक्तार्थसंवादस्तु उक्तः षोडशाख्यप्रकरणोक्तश्लोकैरिति बोद्धव्यः ।
" व्यक्त्याख्या खल्वेका क्षेत्राख्या चापरा महाख्या च । यस्तीर्थकृत् यदा किल तस्य तदाद्यति समयविदः ॥ ऋषभाधानां तु तथा सर्वेषामेव मध्यमा ज्ञेया । सप्तत्यधिकशतस्य च चरमेह महाप्रतिष्ठेति ॥ xxxxxx भावरसेन्द्रात्तु तथा महोदयाजीवताम्ररूपस्य । कालेन भवति परमा प्रतिबद्धा सिद्धकाञ्चनता ॥ वचनानलक्रियातः कर्मेन्धनदाहतो यतश्चैषा । इति कर्त्तव्यतयाऽतः सफलषाप्यत्र भावविधौ ॥" इति गाथार्थः ॥ अत्रैवार्थे अन्यमतमुक्षिप्य परिहरन्नाह---
जंपि अहरुत्तरेणं करणे आसायणा भणंतन्ने ।
तंपि य न जुत्तं सब्वे तुल्लगुणा जेण तित्थयरा ॥ ५० ॥ व्याख्या--यदपि अधरोत्तरेण आधाराधेयरूपेण करणाद्विधानादाशातनां ज्ञानादित्रुटिरूपां भणन्ति गदन्त्यन्येऽपरे, तदपि न केवलं पूर्वोक्तं नेति निषेधे युक्तं सङ्गतम् । कस्माद् ? यस्मात्सर्वे समस्ता तुल्यगुणा अहीनातिरिक्तगुणा
For Private And Personal Use Only