________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२
Acharya Shri Kailassagarsuri Gyanmandir
॥ द्रुतविलंबितं वृत्तं ॥ प्रवरनिर्मलधर्मविबोधकं भुवनदुः कृततापविशोधकम् । ज्वलदहेः परमेष्टसुखप्रदं श्रयत पार्श्वजिनं शिवकारकम् ॥ ४ ॥ || शिखरिणी वृत्तं ॥
सदेवेंद्रैः पूज्योह्यतिशयविभूत्या पुनरपि तपस्तीव्रं तप्तं क्षपितभवदाहः शमतया । बहूनां भव्यानां जनितजिनधर्मो भवहरः
महावीरो देवो जयतु जितरागो जिनपतिः ॥ ५ ॥ ॥ पुनः शार्दूलविक्रीडितं वृत्तं ॥ सर्वाभीष्टवरप्रदानप्रथमः सर्वस्य सिद्धिस्ततः
आख्येयस्य च संतिकामसुदुघा कल्पद्रुचिंतामणिः । ध्यायेत् गौतमनाममंत्रमनिशं स स्यान्महासिद्धिभाक् सर्वारिष्टनिवारको ददतु सः श्रीगौतमः केवलं ॥ ६ ॥ वंदिता सर्वदेवैः सा वाग्देवी वरदायिनी । यस्याः प्राप्तौ जनाः सर्वे ज्ञाततां पूज्यतां ययुः ॥ ७ ॥ ॥ पुनः शार्दूलविक्रीडितं वृत्तं ॥
अंबोद्भासियुगप्रधानपदवीविभ्राजमानः पुनः
ज्योतिर्व्यतर देवनागसुसुरैः संसेवितः सन् सदा । आप्तोक्तिं स्मरता च जैनसुकुला लक्ष्मीकृताः श्रावकाः भूयाच्छ्रीजिनदत्तसूरिगणभृत् सर्वार्थकल्पद्रुमः ॥ ८ ॥
For Private And Personal Use Only