________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३
॥ आर्या ॥
सूरिश्रीजिनकुशलः क्षितितललब्धोदग्यशःप्रसरः ।
सेव्यः सैव गुरुभक्त्या भवंतु श्रीजित् किमन्यदेवेन ॥ ९॥ एते सर्वेपि देवेशा मंगलक्षेमकारकाः । भवंतु श्रीजितां नित्यं विमव्यूहप्रणाशकाः ॥ १० ॥
शौर्यादिसद्गुणगणावलिभूषितात्मा
तेजोभरेण सवितेव विराजमानः । इंद्रो यथा परमविक्रमभूतिशाली
जीया चिरं द्युतिपतिः कृपाचन्द्रसूरिः ॥ ११ ॥ पितामहस्य चाद्भूतं क्रियते लोकभापया । श्रीजिनदत्तः सत् चरितं तस्य सुंदरम् ॥ १२ ॥
इह हि सकलप्रामाणिकमौलिलौकिकप्रकृष्टाचारविशिष्टाः कचि - दभीष्टकाय्र्ये प्रवर्त्तमानाः समस्तसमीहित वितरणविहितसुरकारस्कराहंकार तिरस्कारस्वाभीष्टदेवतानमस्कारपुरस्कारमेव प्रवर्तते अतः प्रस्तुतचरित्रकारः समस्तयोगिनीचक्रदेवदेवतावात विहितशासनाः नानाप्रभावनाप्रभावित श्रीजिनशासनाः महर्द्धिक नागदेवश्रा वकसमाराधितश्री अंबिकालिखितश्रीजिनदत्तसूरियुगप्रधानेत्यक्षरवा
चिनमार्जनसमुपार्जितयुगप्रधानपदसत्यताप्रधानाः सकलातिशायि - प्रगुणगुणगणमणिखनयः सकलशिष्टचूडामणयः प्रबोधितान्यगच्छीया तुच्छ भूरिसूरयः श्रीजिनदत्तसूरयः श्री जिनशासनेऽतुच्छोपकारकाः समस्तभव्यानां महानुप्रभावकाः संजाताः अतो
For Private And Personal Use Only