________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Achar
अहम् । श्रीयुगप्रधानपदोपबृंहितसमस्तजगदोद्धरणसमर्थ श्रीमजिन
दत्तसूरिचरित्रम् विच्छिरोमणिश्रीमदानंदमुनिभिः संकलितं
पं० मुनिश्रीजयमुनिना संस्कृतं
लोकभाषोपनिबद्धं च । श्रीमजिनदत्तसूरिचरित्रम् ॥
खस्तिश्रीजयकारकं जिनवरं कैवल्यलीलाश्रितं
शुद्धज्ञानसुदानयानप्रकरैर्निस्तीर्णभव्यव्रजम् । प्रोल्लासाद्भुतप्रातिहार्यसहितं रागादिविच्छेदकं तीर्थेशं प्रथमं नमामि सुतरां श्रीआदिनाथाभिधम् ॥१॥
॥शार्दूलविक्रीडितं वृत्तं ॥ श्रीशांतिः कुशलं ददातु भविनां शांतिं श्रिताः सर्वके
ध्मातः शांतिजिनेन कर्मनिचयो नित्यं नमः शांतये । शांतेः शांतिसुखं गता च मरिका शांतेस्तथा शांतता शांतौ सर्वगुणाः सदा सुरतरुः श्रीशांतिनाथो जिनः ॥२॥
॥द्रुतविलंबितं वृत्तं ॥ विहितसंवरभावजगजनं नरसुरेश्वरसेवितपत्कजं । प्रवरराजिमती हितकारकं नमत नेमिजिनं भवतारकम् ॥३॥
For Private And Personal Use Only