________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इति न्यायात् सर्वमनवा, ॥ नन्वेता आशातना जिनालये क्रिय माणा गृहिणां कंचनदोषमावहंति, उत एवं एवं न करणीयाः, तत्र ब्रूमः समाधानम्, न केवलं गृहिणां सर्वसावधकरणोधतानाभवभ्रमणादिकदोषमावहंति, किंतु निरवद्याचाररतानां मुनीना मपि दोषमावहंति, इत्याह, ॥ आसायणाउ भवभमण कारणाइइ विभाविउं, जइणो मलिणत्ति न जिण मंदिरंमि, निवसंति इइ समए ॥ ४२ ॥ ५॥ एता आशातनाः परिस्फुरत् विविधदुःखपरंपराप्रभवभवभ्रमणकारणमिति विभाव्य परिभाव्य यतयोऽस्ना नकारित्वेन मलमलिनदेहत्वात् , न जिनमंदिरे निवसंति, इति समयः सिद्धांतः, आह च व्यवहारभाष्यकारोपि ॥ दुब्भिगंधमलस्सावि, तणुरप्पेसण्हाणिया ॥ दुहावायवहावाइ, तेणचिहति न चेहए ॥ ४३ ॥ ६ ॥ व्याख्या एषा तनुः नापितापि दुरभिगंधमलप्रस्वेद स्राविणी, तथाद्विधा वायुपथः उर्द्धाधोवायुनिर्गमश्च, यद्वा द्विधा मुखेन अपानेन च वायुवहो वापि वातवहनं च तेन कारणेन न तिष्ठति यतयश्चैत्ये जिनमंदिरे, ॥ यद्येवं व्रतिभिश्चैत्येषु, आशातनाभीरुभिः कदाचिदपि न गंतव्यं, तत्राह सेनूणं भंते संजयाणं विरया विरयाणं जिणहरे गच्छेजा, गोयमा, दिनेदिने गछेजा, जइप्पमायं पड्डुच्च नगच्छेजा, तो छई वा दुवालसं वा पायच्छित्तं लभेजा ॥ इति महाकल्पे ॥ अथ जिनचैत्ये मुनीनामवस्थितिप्रमाणं विभणिषुराह ॥ तिनि वा कट्ठइ जाव, थुइओ तिसलोइया । तावच्च अणुनायं, कारणेण परेणओ ॥ ४४ ॥७॥ व्याख्या तिस्रः स्तुतयः कायोत्सगोनंतरं या दीयंते ता यावत्कर्षति भणति इत्यर्थः,
का द्विधा मुखेन, तथाद्विधा यातनुः नापितापणचिहति न
For Private And Personal Use Only