SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५९ तथारेकारं तिरस्कारप्रकाशकं रेरे रुद्रदत्तेत्यादि वक्ति, ६६ तथा धरणकं रोधनमपकारिणामधमर्णादीनां च ६७ तथा रणं संग्रामकरणं ६८ तथा विवरणं बालानां केशानां विजटीकरणं, ६९ तथा पर्यस्तिकाकरणं, ७० तथा पादुका काष्ठादिमयं चरणरक्षणोपकरणं ७१ तथा पादयोः प्रसारणं स्वैरं निराकुलतायां, ७२ तथा पुटपुटिकादापनं, ७३ तथा पंकं कर्दमं करोति, निजदेहावयवप्रक्षालनादिना, ७४ तथा रजो धुलिःतां तत्र पादविलग्नां ताडयति ७५ तथा मैथुनं मैथुनस्य कर्म, ७६ तथा यूकामस्तकादिभ्यः क्षिपति वीक्षयति वा ७७ तथा जेमनं भोजनं, ७८ तथा गुह्यं लिंग तस्सा संघृत्तस्य करणं, ७९ जुझमिति तु पाठे युद्धं दृग्युद्धबाहुयुद्धादि, तथा विझत्ति, वैद्यकं, ८० तथा वाणिज्यं क्रयविक्रयत्वलक्षणं, ८१ तथा शय्यां कृत्वा तत्र स्वपिति, ८२ तथा जलं तत् स्नानाद्यर्थ तत्र मुंचति पिबति वा, ८३ तथा मज्जनं स्नानं तत्र करोति, ८४ एवमा. दिकमवा सदोषं कार्य उत्सुकः प्रांजलचेता उद्यतो वर्जयेत् जिनेंद्रालये जिनमंदिरे ॥ एवमादिकमित्यनेनेदमाह ॥ न केवलं एतावत्य एवाशातनाः, किंत्वन्यदपि यदनुचितं हसनवल्गनादिकं जिनालये तदप्याशातनास्वरूपं ज्ञेयं ॥ नन्वेवं, तंबोलपाण इत्यादि, गाथया मेव आशातनादशकस्य प्रतिपादितत्वात् , शेषाशातनानां च एतत् दशकोपलक्षितत्वेनैव ज्ञास्यमानत्वात्, अयुक्तं इदं द्वारांतरम् , इति चेन्न, सामान्याभिधानेऽपि बाला दिबोधनार्थ विमिन्नं विशेषामिधानं क्रियत एव, यथा ब्राह्मणाः समागताः वशिष्ठोऽपि समागतः For Private And Personal Use Only
SR No.020406
Book TitleJinduttasuri Charitram Purvarddha
Original Sutra AuthorN/A
AuthorChhaganmalji Seth
PublisherChhaganmalji Seth
Publication Year1925
Total Pages431
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy