SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aathana Kendra www.kobatirm.org Acharya Shri Kasagarsuri Gyanmandir गतानुगतिकत्वेनास्माभिरप्यनन्यगत्याऽर्थान्तरमुररीकृतमिति विपक्षस्य वाक्यमदृढमूलतानिरूपणपूर्वकत्वेन कुशकाशावलम्बनमाय दर्शयितुमाह सुत्तं विसेसविसयं, लिहिअं गंथेसु तुम्ह सूरीहिं । ता इरिआवहिआए, कहमऽत्थो घडइ निम्मूलो।२०। व्याख्या-'सुत्तं' ति श्रीमहानिशीथसूत्रपदं “अपडिताए इरिआवहिए" इत्यादिरूपं 'युष्माकं सरिभिः' युष्मत्पूर्वाचायः 'ग्रन्थेषु' निजनिजग्रथितशास्त्रेषु विशेषविपर्य'लिखितं' लिपिसात्कृतं, युष्मदुक्त्या तत्सूत्रस्य प्रतिव्यक्तिनिर्विशेषतया वादकैरपि व्यक्तिविशेषविषयितया तत्सत्र खत्पूर्वनिवेदितमिति भावस्तथाहि-"अत्र च सम्पदाया दुत्कृष्टचैत्यवन्दनेर्यापथिकी प्रतिक्रमणपुरस्सरं विधेयेत्यतःसैवादी व्याख्यायते" इति षडावश्यक(वन्दारु)त्तौ (१३ पत्रे) दिनकृत्यबृहद्वृत्तौ च देवेन्द्राचार्याः, तथा “सम्पूर्णायामस्यां क्रियमाणायां पापक्षपणादीन्यष्टौ फलानि स्युः, यदत्रेर्यापथिक्या अपि फलमुपदर्शितं तदीर्यापथिकीपतिक्रमणपुरस्सरैव प्रतिपूर्णा चैत्यवन्दनेति प्रतिपादनार्थ" इति चैत्य वन्दन भाष्यवृत्तौ (३ पत्रे) युष्मत्पूर्वजाः सोमसुन्दरसूरयः, तथा “यदत्रैर्यापथिक्या अपि फलमुपादशि तदीर्यापथिकीप्रतिक्रमणपूर्विकैव परिपूर्णा चैत्यवन्दनेति प्रतिपादनार्थ" इति तावत्प्रोक्तं, पुनरप्यग्रे “वृद्धाः पुनरेवमाहुः उत्कृष्टा चैत्यवन्दना र्यापथिकीप्रतिक्रमणपुरस्सरैव कार्या, अन्यथाऽपि जघन्या मध्यमेति" इति श्रीचैत्यवन्दनभाष्यवृत्ती श्रीदेवेन्द्रमूरिशिष्यमहोपाध्यायधर्मकीर्तिकृतायां सङ्काचाराभिधानायां १३० पत्रे, एवं युष्मत्पूर्वजैरपि यदि महा निशीथवाक्य निर्विशेष सर्वकृत्येषु प्रतिव्यक्तिसाधारण समवगतं स्यात्तदा स्वकीयग्रन्थेषु सर्वचैत्यवन्दनानु साधारणतया स्वीकृताऽपीर्यापथिकी परिपूर्णायामुत्कृष्टचैत्यवन्दनायामेवेति सावधारणवाक्यं नोक्तं स्यादुक्तं च तैः, 'ता' इति तर्हि "इरियाव हियाए” इति पञ्चम्यन्तपदे 'निर्मूलो' गुरुपारम्पर्याभावान्मूलशून्यो गमनब्यावृत्तिरूपोऽर्थः कथं घटते' KI घटामास्कन्दति ?, अयम्भाव:-श्रीमहानिशीथसूत्रवाक्यस्य निर्विशेषखसाधनाय असाधीयानपि नव्योऽर्थः कल्पनागोचरीकृतः, तस्मिस्तु For Private And Personal Use Only
SR No.020384
Book TitleIryapathiki Shatrinshika
Original Sutra AuthorN/A
AuthorJaysomgani
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages58
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy