SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kasagarsur Gyli mandir ईर्यापथिकी पत्रिंशिका खरतर नयसोमीया ॥ १२॥ बाधा, मार्गे गच्छतां या काचिद्विराधना भवति सा ईपिथिकीत्युच्यते" इति श्रीदेवेन्द्राचार्यकृतायां वन्दारुखन्दारकादिकायां पडावश्यकवृत्ती (१४ पत्रे), तथा “अथ तत्र वा ईरणमीर्या-गमनमित्यर्थस्तत्पधानः पन्था ईर्यापथस्तन भवा ऐर्यापथिका, अथवा पथि जाता पथिका, ईर्यायां इरणे वा पथिका ईपिथिका तस्यां, तथा गच्छतः पथि या काचिद्विराधना जाता भवनि सा ऐर्यापथिकेत्युच्यते' इति श्रीश्रीचन्द्रमरिकृतपडावश्यकवृत्ती नयनयुगनेन्दु (१२२२) वर्षकृतायां, तथा "आवस्सियाइ थंडिलदेसं गंतूण काइयं काऊण निसीहियं भणतो पविसइ, इरियं पडिकमइ” इति सूत्र, तत्र “प्रविष्टः सन् ईर्यापथिकी प्रतिक्रमति, तत्र 'ईरण' ईर्या-गमनं, तद्युक्तः पन्था अपि ईर्यापथः, तत्र भवा ईपिथिकी विराधना-जन्तुबाधा, मार्गे गच्छता या काचिद्विराधना भवति सा ईपिथिकी उच्यते" इति यतिदिनचर्यावृत्ती, एवं स्थाने स्थाने ईर्यापथिकीव्याख्यानावसरे मार्गजनितविराधनाया एवेर्यापथिकीति विशेषणमासाद्यते, अत'ईर्यापथिकायाः' मार्गजनितविरा. धनायाः प्रतिक्रामतीति सम्यगेवार्थसङ्गतिन कोऽपि दोपः, 'अनंच'त्ति अन्यच्च प्रत्ययार्थः' भवाद्यर्थिकप्रत्ययस्यार्थः तव पाठितस्यापि 'विस्मृतः स्मृत्तिगोचरमतीतः पूर्वपक्षं विवक्षोरिति शेषः, अयं भावः-ईर्यापथे भवा इर्यापथिका इति भवायर्थिकपत्ययस्य त्वदुक्तार्थविपक्षस्य जागरूकत्वेऽपि भवता प्रत्यायार्थनिरपेक्षतर्यवोच्यते, न च कुत्राप्यागने ईपिथिकायाः गमनादिरूपोऽर्थः समवसितः, (तत्) प्रत्ययेन गमनादि भवायाः एव कस्याश्चिद्वोधनात , तथा र्यापथिकेति विशेषणपदमनुक्तमपि विराधनारूपं विशेष्यपदमवगमयति, इतरथा 'इच्छाकारेण संदिसह भगवन् ! इरियावहि पडिकमामि' इति क्षमाश्रमणे(न मागितादेशे) किमाश्रयणीयं स्यादर्थोपपत्तावित्यपि चिन्त्य. तथा चैवम्भूतः प्रत्ययार्थों यदि स्मृतिविषयमुपगतो भवेत्तदैवम्भूताऽऽकस्मिकार्थकल्पना न विहिता भवेत्, ततः प्रत्ययार्थो विस्मृत एवेति सम्भावना ।१९। ननु अस्मदुत्त युक्तीनां युक्तानां विद्यमानदेऽपि कहानिशीथवावयस्यास्मत्पूर्वजैः सर्वधर्मकृत्येषु साधारणत्वमेवाङ्गीकृतमिति ॥१२॥ For Private And Personal Use Only
SR No.020384
Book TitleIryapathiki Shatrinshika
Original Sutra AuthorN/A
AuthorJaysomgani
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages58
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy