________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ४२ )
સન્નિપાતવરનાં લક્ષણ आलस्यमरुचिः कर्णसंध्यस्थिशीर्षवेदना। मूर्छा दाघस्तृषा निद्रा नैव जिह्वातिपांडुरा ॥ ५४ ॥ पीते वा लोहिते नीले लोचने शीतलं वपुः ।
भ्रमः कासो मुखं तप्तं सन्निपातज्वरेंगितम् ॥ ५५ ॥ સન્નિપાત વરવાળા રોગીને આળસ ઉપજે છે, અન્નાદિકપર રૂચિ રહેતી નથી, કાન, સાંધા, હાડકાં, અને માથામાં વેદના થાય છે, રોગી બેભાન થાય છે, તેને શરીરે દાહ થાય છે; તરસ લાગે છે તથા ઉઘ આવતી નથી, તેની જીભ ઘણી ધળી થઈ જાય છે; તેની આંખો પીળી, રાતી, કે નીલવર્ણની થઈ જાય છે, તેનું શરીર ઠંડુ લાગે છે, તેને ભ્રમ થાય છે, ખાંસી થાય છે, અને તેનું મુખ ગરમ રહે છે, આ લક્ષણો સન્નિપાત જવરનાં છે.
सन्निपातन उपाय. शुंठी दारु वचा मुस्ता किरातं कासुली तथा। कंटकार्यमृताक्वाथः सन्निपातज्वरापहः ॥ ५६ ॥ मधूकसारसिंधूत्थवचोषणकणाः समाः । बोधयत्यंजसा चूर्ण नस्यतो ज्वरमूर्छितम् ॥ ५० ॥ यवासेंद्रयवा भार्गी कर्चुरः कटुरोहिणी। पटोली च सितैरंडमूलं कर्कटशृंगिका ॥ ५८ ॥ एषां समांशतः क्वाथः श्वासं कासं तथा भ्रमम् । सन्निपातज्वरं हन्ति रोगिणः पथ्यभोजिनः ॥ ५९ ॥ निंबो दारुनिशा मुस्ता त्रिफला कटुरोहिणी । पटोलीक्वाथपानेन याति त्रैदोषजोज्वरः ॥ १० ॥ पर्पटश्चंदनश्छिन्नसंभवा समभागतः ।। सन्निपातज्वरं हन्ति क्वाथ एषां निषेवितः ॥६॥ किरातेद्रयवा मुस्ता कटुकीविश्वभेषजम् । चूर्णमेषां सितायुक्तं सन्निपातज्वरापहम् ॥ २ ॥ हिंगु शुंठी कणापथ्या मातुलुंगरसान्वितम् । भक्षितं चूर्णमेतेषां सन्निपातज्वरापहम् ॥ ६३ ॥ शिरीषबीजगोमूत्रकृष्णामरिचसैंधवैः । बोधयत्यंजनं सुमं सन्निपातेन मानवम् ॥ ६४ ॥
For Private and Personal Use Only