________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १७६) ओम् नमो भगवते श्रीपार्श्वनाथाय श्रीबीराय नमः । ओम् सत्यं सत्यवते स्वाहा ॥ इतिमंत्रः ॥
पुराहिकृत्तिनिर्गुडीवचाकुष्ट समांशकम् । कनकाज्यमयं धूपो बालकग्रहनाशनः ॥ ७ ॥ भार्गी च बालर्क दारु चूर्णमेषां समांशतः । शिशूनां वारिणा पिष्टं पीतं सर्वज्वरापहम् ॥ ८ ॥ गोजिह्वा धातुकीरोध्रौ बिडं दैत्या समाक्षिकः । लेहः क्वाथो ऽथवा हन्ति बालातीसारमुल्वणम् ॥ ९॥ शंखयष्टयंजनैश्चूर्ण शिशूनां गुदपाकनुत् । श्यामारसांजनं मुस्ता चूर्णमेषां समांशतः ॥१०॥ बालातीसारहृद्भुक्तं सद्यः शर्करयासह । काकोली गजकृष्णा च लोध्रमेषां समांशतः ।। ११ ।। काथो मध्वन्वितः पीतो बालातीसारहृन्मतः ॥ १२ ॥ श्यामारसांजनं चूतफलास्थि समचूर्णकम् । हन्ति छर्दिमतीसारं मधुना सह भक्षितम् ॥ १३ ॥ लाजा सैंधवयोश्चूर्ण बीजपूररसान्वितम्। भक्षितं नाशयत्येवं शिशूनां छर्दिमुल्वणाम् ॥ १४ ॥ लाजाः सैंधवमाम्रास्थि चूर्णमेषां समांशतः। हन्ति छर्दिमतीसारं मधुना सह भक्षितम् ॥ १५ ॥ तवराजः कणाचूर्ण सैंधवेला कटुत्रयम्।। निरोधं हन्ति बालानां मधुना सह भक्षितम् ॥ १६ ॥ पिष्पल्यतिविषा मांसी तथा कर्कटशूगिका । तशूर्ण मधुना भुक्तं छर्दिकासविनाशकृत् ॥ १७ ॥ विश्वलासैंधवं हिंगु भारंगी चूर्णकं मधु।। पिष्टमाज्यान्वितं भुक्तं शिशूनां वातशूलहृत् ॥ १८ ॥ गोक्षुरः सैंधवं शुंठी दारु मुस्ता वचाश्मभित् । विडंगं चूर्णकं भुक्तं सर्पिषा वातशूलहृत् ॥ १९ ॥ राजिका गृहधूमेंद्रयवास्तऋण चूर्णिताः। पामां विचार्चकां सिध्मं बालानां नन्ति लेपतः ॥ २० ॥ हरीतकीवचाकुष्टचूर्णकं समभागतः । मधुना भक्षितं हन्ति बालानां तालुकंटकम् ॥ २१ ॥
For Private and Personal Use Only