________________
San Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
+
५
+
अमिलतां पितापुत्री, हुमायूँ वसति गतः । शान्तिचन्द्रचमत्कारं, दृष्ट्वा शाहोऽतिनन्दितः ॥ २३५ ॥ अटकराज्यमाने तु, सम्राइतिक्रमं व्यधान । गते बहुतिथे राजा, न किञ्चित्फलमाप्तवान् ॥ २३६ ॥ पूर्णां गतोंहि फूत्कारात् , द्वितीयाद् वप्रसंहतिः । तृतीयाच्छान्तिचन्द्रस्य, मेरी शाहस्य वादिता ।। २३७ ॥
॥ शतावधानिशान्तिचन्द्रप्रभावतः शाहेन जिजियावेरो हिंसा च निरुद्धा । अहिंसतत्प्रभावन्तु, विलोक्य जिजिया महन् । शतावधानिशान्तिस्तु, शाहे दयामपूरयत् ॥ २३८ । 'ईदे' पर्वणि सर्वत्र, शाहो हिंसामरोधयत् । प्रतिवर्ष तु षण्मासान् , दयां जीवेष्वपालयत् ॥ २३९ ।।
॥भानुचन्द्रप्रभावः ।। भानुचन्द्रोऽपि शिष्यः स, सूरेराख्यामतिष्ठिपत् । राः शिरसि हस्तं, च धृत्वारोगमनाशयत् ॥ २४० ॥
॥शुद्वचारित्रप्रभावात् पश्चशतानि गावो मोचिताः ॥ चारित्रस्य प्रभावोऽयं, शातो राशाऽनुभूतितः । हिंस्याः पञ्चशतं गावः, त्याजिताः फरदानवात् ॥ २४१ ॥
॥ भानुचन्द्रस्य सततोपदेशात् शाहः सिद्धगिरेः करं गवां हिंसाश्च मुक्तवान् ॥ शाहेन संवरन् भानुः, प्रयाणे देशनां ददत् । सिद्धाचलकरं रामः, प्राप्यादेशममोचयत् ॥ २४२ ।। गोमहिष्यादिजन्तूनां, शाहो हिंसामरोधयत् । सम्राडागत्य लाहोरं, बबन्धोपाश्रयं महत् ॥ २४३ ॥
॥ भानुचन्द्रस्य स्नात्रपाठफलं तथा तस्य शाहप्रदत्तवाचकपदम् ॥ उद्धृत्य बालपुत्री तु, दयाधर्ममबोधयत् । स्नात्रस्यपठनाच्छान्ति भानुचन्द्रो व्यधात् मुनिः ॥ २५४ ।।
For Private And Personal use only