________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्षाकालवर्णनम्
( चन्द्रस्य विश्वस्पृहणीयत्वम् ) लाभेन शान्तेर्मुनयश्च सज्ज्ञा:
विद्योदयाच्छात्रगणाः सहर्षम् । रतिप्रमोदाच्च विलासिलोका
विश्वे हिमांशो ! बहुमन्यते त्वाम् ॥१२॥
-: २१ :वर्षाकालवर्णनम्
कलापिकेकारवमाददाना
'ताम्राक्षगीताच्च मुदं दधाना । वनाग्निवेगं च निवारयन्ती
समागता प्रावृडहो ! सुखर्तुः ॥१॥ कामाऽऽकुलान् कामिजनान् समन्ताद्
ध्यानान्वितान् ध्यानिजनांश्च सम्यक् । करोति सानन्दरवाश्च मेकान्
घनागमः कस्य 'सुखाकरो न ? ॥२॥ 'छात्रानधीतिनः शास्त्रे कृषकांश्चोतितत्परान् । हरित्फलामिलां कुर्वन् भाति वर्षागमः शुचिः ॥३॥ *आत्मानन्द प्रकाश पु. ३० अंक १ १ कोलिलगीतान् । २ असुखं सुखं कोतीति सुखाकरः । ३ अध्ययनवतः । ४ बीजवपनकायेतत्पन् ।
For Private and Personal Use Only