SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८ वर्षाकालवर्णनम् नदीनां कुलटानां च भेकाऽभ्रपङ्कविद्युताम् । १औधत्यं मद्यवन्मेघो जनयन् जृम्भते जवात् ॥४॥ कमलं समल मेघो 'भामिनीं 'भामवामिनीम् । ज्योत्स्नामहो! "तमिस्रावत् करोति 'पुष्पितां लताम् ॥५॥ स्थले स्थलेऽम्भोभृतपुष्करिण्यः सुगन्धनीरा बकमेकतीराः । "जलौकआभाः कुमुदाऽब्जशोभाः प्रानन्दयन्ते न मनांसि केषाम् ? ॥६॥ आहारं च १"विहारं च ११निरुध्य यतितल्लजाः । वाणिज्यं १२वणिजचेह धर्मकर्मसु १३कर्मठाः ॥७॥ १ महत्त्वं, निमर्यादत्वं, उद्धृत्तत्वं च । २ अम्बुजं, अम्बु, मृगं च "कमलं क्लोम्नि भेषजे । पङ्कजे सलिले ताने कमलस्तु मृगान्तरे।" इति हैमानेकार्थकोषः [काण्डे ३-६४] ३ सम्-सम्यक् , अलं--समर्थम् । अम्युपक्षे मलयुक्तम् । मृगान्तरपक्षे तु, मलेन दुःखेन रोगेण-पङ्केन वा सहितं समलम् । ४ स्त्रीम् । जातावेकवचनम्, एवमन्यत्राऽपि । ५ मामेन कृत्रिमेन रतिकोपेन वामशीलाम् । पक्षे भामस्य वमनकारिणी-कोपत्यागिनीमित्यर्थः । ६ ज्योत्स्ना तु पूर्णिमारात्रिस्ताम् । ७ तमिस्त्रा-अमावास्यारात्रिस्तद्वत् , धाराधान्धकाराविलत्वात् । ८ पुष्पाणि जातान्यत्र तां पुष्पितां लतां, पक्षे रजस्वलाम् । ९ जलजन्तुशोभावत्यः ।। १० ग्रामान्तरगमनम् । ११ संवृत्य । १२ वणिजो वाणिज्य निरुध्येति सम्बन्धः । १३ कुशलाः-तत्पराः, भवन्तीति शेषः । इह-वर्षासु । For Private and Personal Use Only
SR No.020374
Book TitleHimanshuvijayjina Lekho
Original Sutra AuthorN/A
AuthorHimanshuvijay, Vidyavijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year
Total Pages597
LanguageGujarati, Hindi
ClassificationBook_Gujarati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy