________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनागभसाहित्ये दर्शनशास्त्रम्
निरूपिताः । श्रुतज्ञानावसरे च आचाराङ्गादिमूलद्वादशाङ्गीविषयो तत्प्रमाणादिश्च विस्तराव्याख्यातः । प्रज्ञापनायां सूत्रे च प्रमाणभूतज्ञानविषयकविचारो वीक्ष्यते । अनुयोगद्वारे अन्थेऽपि प्रमाणादिचर्चा नातिसंक्षेपाल्लक्ष्यते । श्रीमहावीरोपदिषु द्वादशांङ्गेषु मूलग्रन्थेषु कस्को विषयो वरीवर्ति तन्नन्दीसूत्रकारस्तत्रोल्लिलेख दियात्रेणात्रोल्लिख्यते । तद्यथा"इञ्चेयम्मि दुवालसंगे गणिपिडगे अणंताभावा, अणंता अभावाः; अणंता हेऊ, अणंता अहेऊ, अणंता कारणा, अणंता अकारणा, अणंता जीवा, अणंता अजीवा, अणंता भवसिद्धिया, अणंता अभवसिद्धिया, अणंता सिद्धा, अणंता असिद्धा पपणत्ता । 'नन्दीसूत्रम् ५७, पृ० ११७
आचारङ्गनामनि प्रथमे सूत्रे ज्ञानाचारगता ज्ञानचचर्चाऽपि ज्ञानवर्धिष्णुरस्ति । चतुर्दशपूर्वेषु च १ उत्पादपूर्व ४ आस्तिकनास्तिकवादपूर्व, ५ ज्ञानप्रवादपूर्वे, ७ आत्मप्रवादपूर्वे च क्रमतो ३द्रव्यप्रर्यायसप्तनयप्रमाणस्याद्वादपूर्वकवस्तु. स्थापनप्रमाणज्ञानात्मादिविषयाः स्पष्टिताः ।
१ इत्येतस्मिन् द्वादशाङ्गे गणिपिटके अनन्ता भावाः अनन्ता अभावा:, अनन्ता हेतवः, अनन्तानि कारणानि, अनन्तान्यकारणानि, अनन्ता भन्याः, अनन्ता अभव्याः, अनन्ता सिद्धाः, अनन्ता असिद्धाः (प्रतिपादिता इत्यर्थः ) इति संस्कृतच्छाया । . २ नन्दीसूत्रम् ४४, पृ. ९४ । ३ नन्दीसूत्रम् ५६, पृ० १०९।
For Private and Personal Use Only