________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनागमसाहित्ये दर्शनशास्त्रम्
आगमेषु दर्शनशास्त्रोल्लेखः जैनागमसाहित्यस्य सर्वमुमुक्षुजीवमोक्षप्रापकत्वात् सरलाथप्रतिपादकत्वाच्च तत्र दर्शनशास्त्रस्याऽतीव संक्षेपार खण्डशश्च निर्देशो दृश्यते । तथाऽपि ' सूत्रकृताङ्गनाम्नि सूत्र बौद्धचार्वाकसाङ्ख्याद्वैतज्ञानवादिक्रियावादिप्रभृतिनैकदर्शनानि निर्दिश्य निराकृतानि ।'भगवतीस्त्रे नाम्नि पञ्चमाने राजप्रश्नकृते चोपांगे प्रमातृविषयस्य; आभिनिवोधिकश्रुतादिप्रमाणनयज्ञानविषयस्य प्रमाणचतुष्टयस्य च विस्तरात् प्रतिपादनं समस्ति । स्थानाङ्गसूत्रे विविध प्रमाणं प्ररूपितम् । 'दृष्टिवाइनाम्नि द्वादशमूलागमे तु गीर्वाणगिरा नैकदर्शनानां प्रमाणनयस्याद्वादानां च वादाश्चर्चिता इति 'ग्रन्थान्तरेभ्यो ज्ञायते । नन्दीसूत्रे ग्रन्थे तु संपूर्णे प्रमाणत्वेनाभिमतस्वपरव्यवसाये स्वरूपमत्यादिपञ्चविधज्ञानस्य वादो विस्तरतो विलोक्यते, मतिश्रुतयोविस्तृतः परोक्षत्वेऽपि इन्द्रियानिन्द्रियनिबन्धनमतिज्ञानस्य लौकिकप्रत्यक्ष निक्षेपो विहितः पञ्चविधशानस्य च प्रत्यक्षपरोक्षाभ्यां समासाद्वैविध्यमुक्तं परोक्षप्रतिपादनप्रसङ्गे मतिश्रुतयोर्मुख्यगौणतो भूयांसो मेदप्रमेदाः
१ प्रथमाध्ययने । २ अष्ठमे शतके । ३ अभिनिबोधिक मतिज्ञानस्य नामधेयमस्ति, तच्चन्द्रिकमानसप्रत्यक्षस्य वाचकमवधेयम् । ४ दृष्टीनां-दर्शनानां वादा यत्रेति दृष्टिवादः । अयं महत्तरो ग्रन्थोऽस्ति परन्त्रस्मद्देव दोषाद् विच्छिन्नो बहुकालत इति श्रूयते ५ नन्दीसूत्रं ५६ सूत्रं तट्टीका च । ६ नन्दीसूत्रं , अनुयोगद्वारं च ४५ सूत्रगणनायां गण्यते ।
For Private and Personal Use Only