SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनागमसाहित्ये दर्शनशास्त्रम् २५ दर्शनानां प्राचीबालीतत्वसाधन विकाचे कर्महे । मागमोवपत्ति कालप्रवाहाऽपेक्षया जैनदर्शनमनादिनिधनमपि वर्त. मानावसर्पिणीकालभवचतुर्विंशतितीर्थकराऽपेक्षया 'श्रीऋषभ देवाद् भगवत उदपद्यतातः सादिकमित्यपि वक्तुं शक्यते । पूर्वतीर्थकरस्य सिद्वान्तविनष्टे सति सर्वत्र धर्मशैथिल्ये च प्रसृतेऽपरस्तीर्थकरः समुत्पद्य स्वकालदेशस्थलोकेभ्यस्तकालक्षेत्रस्वभावादिकमपेक्ष्य तदेव प्रमाणप्रमेयादि निर्बाध तत्त्वं तत्तत्काललोकानुकूलया सरण्या परेभ्य उपदिशति; यत् पूर्वतीर्थकरैः प्रतिपादितमिति जैनप्रणाली । ___ एवं क्रमशस्त्रयोविंशतीर्थंकर श्रीपार्श्वनाथशासनस्य विच्छेदे सति ज्ञानतपश्चर्यादिश्रिया वर्धमानः श्रीवर्धमानापरनामा महामनाश्चतुर्विशतीर्थकरः श्रीमहावीरप्रभूः प्रभूय केवलाऽऽलोकेन यत् प्रमातृ-प्रमाण-प्रमेयादितत्त्वं प्रकटीचकार तदेव श्रीन्द्रभूतिगोतमगणधरादिभिस्तच्छिष्यैरिसूरिभिश्च सूत्रग्रन्थादिरूपेण संगृहीत; तस्य संग्रहस्य जैनागमश्रुतिसूत्रसमय सिद्धान्तादीनि नामधेयानि सन्ति, स च संग्रहो मूलभेदाद द्वादशधा, मृलेतरभेदैश्चानेकधा वर्तते । १ श्रीमद्भागवते अं. २-६ ऋषभदेवस्य चरित्र कीर्तितम् । २ अत्यं भासइ अरहा सुत्तंगथत्त गणहरा निउणं । सासणस्य हियाए ओ सुतं .. पवत्तेई ॥ विशेषावश्यकभाष्ये गाथा १९१९ । ३ तत्वार्थभाष्ये अध्या० १-२० । For Private and Personal Use Only
SR No.020374
Book TitleHimanshuvijayjina Lekho
Original Sutra AuthorN/A
AuthorHimanshuvijay, Vidyavijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year
Total Pages597
LanguageGujarati, Hindi
ClassificationBook_Gujarati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy