SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २४ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनागमसाहित्ये दर्शनशास्त्रम् सोऽयं गिरिश्चित्तविशुद्धहेतुन्याय्यो मया मोचयितुं करात्तु । कर्तव्यमेतत् प्रथमं हि मे तत्, स्वप्राणनाशेऽप्यनुपेक्षणीयः ॥ ३६ ॥ युग्मम् -: १५ : जैनागम साहित्ये दर्शनशास्त्रम् *# , भोः ! भोः ! दर्शनविमर्शनदत्तचित्ताः ! चेतस्विनः ! दर्शनशास्त्रं नाम स्वर्गापवर्गमार्गदर्शनप्रदीपः सर्वविद्यासु शेखरायमाणा विद्या, मानवजन्मवृक्षस्याक्षुण्णं फलं, ग्रीष्मेऽप्यतापकरः प्रकाशः, अकम्पकरं शैत्यं, अक्लेदकरं स्नानं अनास्य क्लेशकरं हाम्यं, अनौषधमारोग्यमस्ति । तदेव विविधमततर्क मार्गाणां कुलपर्वत इव नदी वेगानां जनकमजनि । भगवतस्तीर्थकृतः श्री ऋषभदेवस्यानन्तरं जैनदर्शनमाविर्बभूव । ततश्च यथाप्रयोजनं यथापात्रं यथाबुद्धि च 'कपिलादिभ्यः सांख्यादीनि नैकानि मतान्युदभूवन् । तेषु कतमद्दर्शनं प्राचीनं कतमच्चार्वाचीनमिति निर्णेतुं नास्तीदानीमसर्वज्ञस्य कस्यचित्पार्श्वे निर्बाधं साधनमतो न वयं २. For Private and Personal Use Only * पीयूषपत्रिका —पु. १, सं. १२, दर्शनाङ्के । १ त्रिषशिलाका पुरुष चरित्रे, १ पर्वणि । २ वैदिकादीनां मुख्यग्रन्थेषु परस्परदर्शनोले खदर्शनात् । यथा ब्रह्मसूत्रे द्वितीयाध्याये, ऋग्यजुर्वेदादिषु जैन दर्शनोल्लेखो नैकशो दृश्यते । जेनप्रन्थेषु च साङ्ख्यनैय। यिकचार्वाक वेदान्ता दिदर्शनोल्लेख वरीवर्ति
SR No.020374
Book TitleHimanshuvijayjina Lekho
Original Sutra AuthorN/A
AuthorHimanshuvijay, Vidyavijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year
Total Pages597
LanguageGujarati, Hindi
ClassificationBook_Gujarati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy